चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ॥ ८.
मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा। मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ८.
अद्रिका लक्षणा चैव देवी रम्भा मनोरमा। सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ८.
पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा। हेमासरा सुती चैव सुवृत्ता कमला च या ॥ ८.
सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा। गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८.
गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः। तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ॥ ८.
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् । विद्यावती चारुमुखी सुमुखी च वरानना ॥ ८.
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः। प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ॥ ८.
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा। मेघमालीतु यक्षाणां गण एष उदाहृतः ॥ ८.
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः। तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ॥ ८.
लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम्। कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ ८.
ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्त्तिताः। उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ ८.
लोहेयो भरतेयश्च कृशाङ्गेयश्च विश्रुतः । विशालेश्च यक्षाणां पुराणे प्रथिता गणाः ॥ ८.
इत्येतैरसुरैर्घोरैर्महाबलपराक्रमैः। लोकैर्यक्षगणैर्व्याप्ता लोकालोक विदांवराः ॥ ८.
गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना। उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ ८.
विक्रमौदार्यसम्पन्ना महाबलपराक्रमाः। तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ ८.
चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च। चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान्। तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ॥ ८.
प्रथमा त्वग्निका नाम कम्बला तदनन्तरम्। तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ ८.
ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे। त्रयो गन्धर्वमुख्यानां विक्रान्ता युद्धदुर्मदाः ॥ ८.
आग्नेयाः काम्बलेयाश्च तथा वसुमतीसुताः। तैर्गणैर्विविधैर्व्याप्तमिदं लोकचराचरम् ॥ ८.
विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना। उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ ८.
तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम्। नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ॥ ८.
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा। चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ॥ ८.
महाविद्यावदातानां विक्रान्तानां तपस्विनाम्। इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ ८.
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना। उत्पादिता विश्रवसा विद्याचरणगोचराः ॥ ८.
शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः। एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ॥ ८.
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्। लोके गणशतान्येव विद्याघरविचेष्टितात् ॥ ८.
अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना। उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ॥ ८.
समुद्रः सेनः कालिन्दो महानेत्रो महाबलः। सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ८.
इत्येवमादिर्हि गणः किन्नराणां महात्मनाम्। हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ॥ ८.