पावकः पवमानश्च पावमानश्च यः स्मृतः। शुचिः शौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते ।। २९.
निर्म्मथ्य पवमानस्तु शुचिः शौरस्तु यः स्मृतः. पावका वैद्युताश्चैव तेषां स्थानानि यानि वै ।। २९.
पवमानात्मजश्चैव कव्यवाहन उच्यते। पावकात् सहरक्षस्तु हव्यवाहः शुचेः सुतः ।। २९.
देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः। सहरक्षोऽसुराणान्तु त्रयाणान्तु त्रयोऽग्नयः ।। २९.
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्नवैव तु। वक्ष्यामि नामतस्तेषां प्रविभागं पृथक् पृथक् ।। २९.
वैद्युतो लौकिकाग्निस्तु प्रथमो ब्रह्मणः सुतः। ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः ।। २९.
अथर्वा तु भृगुर्ज्ञेयोऽप्यङ्गिराऽथर्वणः सुतः। तस्मात् स लौकिकाग्निस्तु दध्यङ्चाथर्वणः सुतः ।। २९.
अथ यः पवमानोऽग्निर्निर्मन्थाः कविभिः स्मृतः। स ज्ञेयो गार्हपत्योऽग्निस्ततः पुत्रद्वयं स्मृतम् ।। २९.
शंस्यस्त्वाहवनीयोऽग्निर्यः स्मृतो हव्यवाहनः। द्वितीयस्तु सुतः प्रोक्तः शुक्रोऽग्निर्यः प्रणीयते ।। २९.
तथा सभ्यावसथ्यौ वै शंस्यस्याग्नेः सुतावुभौ। शंस्यास्तु षोडश नदीश्वकमे हव्यवाहनः। योऽसावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ।। २९.
कावेरीं कृष्णवेणीञ्च नर्मदां यमुनान्तथा। गोदावरीं वितस्ताञ्च चन्द्रभागामिरावतीम् ।। २९.
विपाशां कौशिकीञ्चैव शतद्रुं सरयून्तथा। सीतां सरस्वतीञ्चैव ह्रादिनीं पावनीं तथा ।। २९.
तासु षोडशधात्मानं प्रविभज्य पृथक् पृथक् । आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः ।। २९.
धिष्णयो दिव्यभिचारिण्यस्तासूत्पन्नास्तु धिष्णयः। धिष्णीषु जज्ञिरे यस्माद्धिष्णयस्तेन कीर्त्तिताः ।। २९.
इत्येते वै नदीपुत्रा धिष्णीष्वेव विजज्ञिरे। तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः। तान् श्रृणुध्वं समासेन कीर्त्यमानान् यथा तथा ।। २९.
thumb|400px|उत्तरवेदी 400px|thumb|सदोमण्डपम् thumb|400px|धिष्ण्य ऋतुः प्रवाहणोऽग्नीध्रः पुरस्ताद्धिष्णयोऽपरो। विधीयन्ते यथास्थानं सौत्येऽह्नि सवनक्रमात् ।। २९.
अनिर्द्देश्यान्यवाच्यानामग्नीनां श्रृणुत क्रमम्। सम्राडग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः ।। २९.
सम्राडग्निः स्मृता ह्यष्टौ उपतिष्ठन्ति तान् द्विजाः. अधस्तात्पर्षदन्यस्तु द्वितीयः सोऽत्र दृश्यते ।। २९.
प्रतद्वोचे नभो नाम चत्वारि स विभाव्यते। ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ।। २९.
हव्यसूर्य्याद्यसंसृष्टः शामित्रे स विभाव्यते। विश्वस्याथ समुद्रोग्निर्ब्रह्मस्थाने स कीर्त्त्यते ।। २९.
ऋतुधामा च सुज्योतिरौदुम्बर्य्यां स कीर्त्त्यते। ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ।। २९.
अजैकपादुपस्थेयः स वै शालामुखीयकः। अनुद्देश्योप्यहिर्बुध्न्यः सोऽग्निर्गृहपतिः स्मृतः ।। २९.
शंस्यस्यैव सुताः सर्व्वे उपस्थेया द्विजैः स्मृताः। ततो विहरणीयांश्च वक्ष्याम्यष्टौ तु तत्सुतान् ।। २९.
क्रतुप्रवाहणोऽग्नीध्रस्तत्रस्था धिष्णयोऽपरे। विह्रियन्ते यथास्थानं सौत्योह्नि सवनक्रमात् ।। २९.
पौत्रेयस्तु ततो ह्यग्निः स्मृतो यो हव्यवाहनः। शान्तिस्वाग्निः प्रचेतास्तु द्वितीयः सत्य उच्यते ।। २९.
तथाग्निर्विश्वदेवस्तु ब्रह्मस्थाने स उच्यते। अवक्षुरच्छावाकस्तु भुवः स्थाने विभाव्यते ।। २९.
उशीराग्निः सवीर्यस्तु नेष्ठीयः संविभाव्यते। अष्टमस्तु व्यरत्निस्तु मार्जालीयः प्रकीर्त्तितः ।। २९.
धिष्ण्या विहरणीया ये सौम्येनान्येन चैव हि। तयोर्यः पावको नाम स चापां गर्भ उच्यते ।। २९.
अग्निः सोऽवभृथो ज्ञेयः सम्यक् प्राप्याप्सु हूयते। हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां स्थितः ।। २९.
मन्युमान् जाठरस्याग्नेर्विद्वानग्निः सुतः स्मृतः। परस्परोच्छ्रितः सोऽग्निर्भूतानां ह विभुर्महान् ।। २९.