पूर्णमासः सरस्वत्यां द्वौ पुत्रावुदपादयत्। विरजञ्चैव धर्मिष्ठं पर्व्वसञ्चैव तावुभौ ।। २८.
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः। सुधामसुतवैराजः प्राच्यान्दिशि सममाश्रितः ।। २८.
लोकपालः सुधर्म्मात्मा गौरीपुत्रः प्रतापवान् । पर्वसः सर्वगणानां प्रविष्टः स महायशाः ।। २८.
पर्वसः पर्वसायान्तु जनयामास वै सुतौ। यज्ञवामञ्च श्रीमन्तं सुतं काश्यपमेव च। तयोर्गोत्रकरौ पुत्रौ तौ जातौ धर्मनिश्वितौ ।। २८.
स्मृतिश्चाङ्गिरसः पत्नी जज्ञे तावात्मसम्भवौ। पुत्रौ कन्याश्वतस्रश्च पुण्यास्ता लोकविश्रुताः ।। २८.
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा। तथैव भरताग्निञ्च कीर्त्तिमन्तञ्च तावुभौ ।। २८.
अग्नेः पुत्रन्तु पर्जन्यं संहूती सुषुवे प्रभुम्। हिरण्यरोमा पर्जन्यो मारीच्यामुदपादयत्। आभूतसंप्लवस्थायी लोकपालः सवै स्मृतः ।। २८.
जज्ञे कीर्तिमतश्चापि धेनुका तावकल्मषौ। वरिष्ठं धृतिमन्तञ्चाप्युभावङ्गिरसां वरौ ।। २८.
तयोः पुत्राश्च पौत्राश्च येऽतीता वै सहस्रशः। अनसूयापि जज्ञे तान् पुलहस्य प्रजापतेः ।। २८.
कन्याञ्चैव श्रुतिं नाम माता शङ्खपदस्य या। कर्दमस्य तु या पत्नी पुलहस्य प्रजापतेः ।। २८.
सत्यनेत्रश्च हव्यश्च आपोमूर्तिः शनीवरः। सोमश्च पञ्चमस्तेषामासीत् स्वायम्भुवेऽन्तरे। यामेऽतीते सहातीताः पञ्चात्रेयाः प्रकीर्तिताः ।। २८.
तेषां पुत्राश्च पौत्राश्च ह्यत्रिणा वै महात्मना। स्वायम्भुवेऽन्तरे यामे शतशोऽथ सहस्रशः ।। २८.
प्रीत्यां पुलस्त्यभार्यायां दत्तालिस्तत्सूतोऽभवत्। पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे। मध्यमो देवबाहुश्च विनीतो नाम ते त्रयः ।। २८.
स्वसा यवीयसी तेषां सद्वती नाम विश्रुता। पर्जन्यजननी शुभ्रा पत्नी त्वग्नेः स्मृता शुभा पौलस्त्यस्य ऋषेश्चापि प्रीतिपुत्रस्य धीमतः। दत्तालेः सुषुवे पत्नी सुजङ्घादीन् बहून् सुतान्। पौलस्त्या इति विख्याताः स्मृताः स्वायम्भुवेऽन्तरे ।। २८.
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः। ते नाग्निवर्चसः सर्वे येषां कीर्तिः प्रतिष्ठिता ।। २८.
कर्दमश्चाम्बरीषश्च सहिष्णुश्चेति ते त्रयः । ऋषिर्धनकपीवांश्च शुभा कन्या च पीवरी ।। २८.
कर्दमस्य श्रुतिः पत्नी आत्रेय्य जनयत्सुतान्। पुत्रं शङ्खपदञ्चैव कन्यां काम्यां तथैव च ।। २८.
स वै शह्खपदः श्रीमान् लोकपालः प्रजापतिः। दक्षिणस्यां दिशि रतः साम्यां दत्त्वा प्रियव्रते ।। २८.
काम्या प्रियव्रताल्लेभे स्वायम्भुवसमान् सुतान्। दशकन्याद्वयञ्चैव यैः क्षत्रं सम्प्रवर्तितम् ।। २८.
पुत्रो धनकपीवांश्च सहिष्णुर्नाम विश्रुतः। यशोधारी विजज्ञे वै कामदेवः सुमध्यमः ।। २८.
ऋतोः क्रतुसमः पुत्रो विजज्ञे सन्ततिः शुभा। नैषां भार्यस्ति पुत्रो वा सर्वे ते ह्यूर्द्ध्व रेतसः। षष्ट्येतानि सहस्राणि वालखिल्या इति श्रुताः ।। २८.
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्। आभूतसंप्लवात्सर्वे पतङ्गसहचारिणः ।। २८.
स्वसारौ तु यवीयस्यौ पुण्यात्मसुमती च ते। पर्वसस्य स्नुषे ते वै पूर्णमाससुतस्य वै ।। २८.
ऊर्जायान्तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे। ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ।। २८.
जननी सा द्युतिमतः पाण्डोस्तु महिषी प्रिया । अस्यां त्विमे यवीयांसो वासिष्ठाः सप्त विश्रुताः ।। २८.
रजः पुत्रोऽर्द्धबाहुश्च सवनश्चाधनश्च यः। सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः ।। २८.
रजसो वाप्यजनयन्मार्कण्डेयी यशस्विनी। प्रतीच्यां दिशि राजन्यं केतुमन्तं प्रजापतिम् ।। २८.
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम्। स्वायम्भुवेन्तरेऽतीतास्त्वग्नेस्तु श्रृणुत प्रजाः ।। २८.
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः। विस्तरेणानुपूर्व्या चाप्यग्नेस्तु श्रृणुत प्रजाः ।। २८.
योऽसावग्निरभिमानी ह्यासीत् स्वायम्भुवेऽन्तरे। ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ।। २९.