तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्तिता। पत्नी सुवर्चला तस्य पुत्रस्तस्याः शनैश्चरः ।। २७.
भवस्य या द्वितीया तु तनुरापः स्मृता तु वै । तस्योषाऽत्र स्मृता पत्नी पुत्रश्चाप्युशना स्मृतः ।। २७.
शर्वस्य या तृतीया तु नाम भूमिस्तनुः स्मृता। पत्नी तस्य विकेशीति पुत्रश्चाङ्गारकः स्मृतः ।। २७.
ईशानस्य चतुर्थस्य स्वर्गतस्य च या तनुः। तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजवः ।। २७.
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता। तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः ।। २७.
नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते। दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चास्य सुतः स्मृतः ।। २७.
उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः स्मृता। दीक्षा पत्नी स्मृता तस्य सन्तानः पुत्र उच्यते ।। २७.
नाम्नाऽष्टमस्य महतस्तनुर्या चन्द्रमाः स्मृतः। पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः ।। २७.
इत्येतास्तनवस्तस्य नामभिः परिकीर्तिताः। तास्तु वन्द्य नमस्याश्च प्रतिनाम तनूषु वै ।। २७.
भक्तेः सूर्येऽप्सु पृथिव्यां वाय्वग्निव्योमदीक्षिते। तथा च वै चन्द्रमसि तनुभिर्नामभिः सह। प्रजावानेति सायुज्यमीश्वरस्य नरो हि सः ।। २७.
इत्येतद्वो मयाख्यातं गुह्यं भीमस्य तद्यशः। शन्नोऽस्तु द्विपदे नित्यं शन्नोऽस्तु च चतुष्पदे ।। २७.
एतत् प्रोक्तं निदानं वस्तनूनां नामभिः सह। महादेवस्य देवस्य भृगोस्तु श्रृणुत प्रजाः ।। २७.
भृगोः ख्यातिर्विजज्ञेऽथ ईश्वरौ सुखदुःखयोः। शुभाशुभप्रदातारौ सर्वप्राणभृतामिह। देवौ धाताविधातारौ मन्वन्तरविचारिणौ ।। २८.
तयोर्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी। सा तु नारायणं देवं पतिमासाद्य शोभनम्। नारायणात्मजौ साध्वी बलोत्साहौ व्यजायत ।। २८.
तस्यास्तु मानसाः पुत्रा ये चान्ये दिव्यचारिणः। ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ।। २८.
द्वे तु कन्ये स्मृते भार्य्ये विधातुर्धातुरेव च। आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ।। २८.
पाण्डुश्चैव मृकण्डुश्च ब्रह्मकोशौ सनातनौ। मनस्विन्यां मृकण्जोश्च मार्क्कण्डेयो बभूव ह ।। २८.
सुतो वे दशिरास्तस्य मूर्द्धन्यायामजायत। पीवर्य्यां वेदशिरसः पुत्रा वंशकराः स्मृताः। मार्क्कण्डेया इति ख्याता ऋषयो वेदपारगाः ।। २८.
पाण्डोश्च पुण्डरीकायां द्युतिमानात्मजोऽभवत्। उत्पन्नौ द्युतिमन्तश्च सृजवानश्च तावुभौ। तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परम्। स्वायम्भुवेऽन्तरेऽतीते मरीचेः श्रृणुत प्रजाः ।। २८.
पत्नी मरीचेः सम्भूतिर्विजज्ञे सात्मसम्भवम्। प्रजायते पूर्णमासं कन्याश्वेमा विबोधत। कुष्टिः पृष्टिस्त्विषा चैव तथा चापचितिः शुभा ।। २८.
पूर्णमासः सरस्वत्यां द्वौ पुत्रावुदपादयत्। विरजञ्चैव धर्मिष्ठं पर्व्वसञ्चैव तावुभौ ।। २८.
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः। सुधामसुतवैराजः प्राच्यान्दिशि सममाश्रितः ।। २८.
लोकपालः सुधर्म्मात्मा गौरीपुत्रः प्रतापवान् । पर्वसः सर्वगणानां प्रविष्टः स महायशाः ।। २८.
पर्वसः पर्वसायान्तु जनयामास वै सुतौ। यज्ञवामञ्च श्रीमन्तं सुतं काश्यपमेव च। तयोर्गोत्रकरौ पुत्रौ तौ जातौ धर्मनिश्वितौ ।। २८.
स्मृतिश्चाङ्गिरसः पत्नी जज्ञे तावात्मसम्भवौ। पुत्रौ कन्याश्वतस्रश्च पुण्यास्ता लोकविश्रुताः ।। २८.
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा। तथैव भरताग्निञ्च कीर्त्तिमन्तञ्च तावुभौ ।। २८.
अग्नेः पुत्रन्तु पर्जन्यं संहूती सुषुवे प्रभुम्। हिरण्यरोमा पर्जन्यो मारीच्यामुदपादयत्। आभूतसंप्लवस्थायी लोकपालः सवै स्मृतः ।। २८.
जज्ञे कीर्तिमतश्चापि धेनुका तावकल्मषौ। वरिष्ठं धृतिमन्तञ्चाप्युभावङ्गिरसां वरौ ।। २८.
तयोः पुत्राश्च पौत्राश्च येऽतीता वै सहस्रशः। अनसूयापि जज्ञे तान् पुलहस्य प्रजापतेः ।। २८.
कन्याञ्चैव श्रुतिं नाम माता शङ्खपदस्य या। कर्दमस्य तु या पत्नी पुलहस्य प्रजापतेः ।। २८.