इत्युक्ते यत् स्थिरं तस्य शरीरस्यास्थिसंज्ञितम्। तद्विवेश ततो भूमिस्तस्माद्भूः शर्व उच्यते ।। २७.
तस्मात् कुर्वीत नो विद्वान् पुरीषम्मूत्रमेव वा। न च्छायायां न सोपाने स्वच्छायां नापि मेहयेत् ।। २७.
शिरः प्रापृत्य कुर्वीत अन्तर्द्धाय तृणैर्महीम्। य एवं वर्त्तते भूमौ तं शर्वो न हिनस्ति वै ।। २७.
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम्। ईशान इति यत्प्रोक्तं चतुर्थं नाम ते मया ।। २७.
चतुर्थस्य चतुर्थी स्याद्वायुर्नाम्ना तनुस्तव। इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम् ।। २७.
विवेश तं तदा वायुरीशानो वायुरुच्यते। तस्मादेनं परिवदेदायतं वायुमीश्वरम्। एवं युक्तमथेशानो नैव देवो हिनस्ति तम् ।। २७.
ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं धूम्रलोहितम्। यत्ते पशुपतीत्युक्तं मया नामेह पञ्चमम्। पञ्चमी पञ्चमस्यैव तनुर्नाम्नाऽग्निरस्तु ते ।। २७.
इत्युक्ते यच्छरीरस्थं तेजस्तस्योपसंज्ञितम्। विवेश तत्तदा ह्यग्निस्तस्मात्पशुपतिः पतिः ।। २७.
चन्द्रमास्तु स्मृतः सोमस्तस्यात्मा ह्योषधीगणः। एवं यो वर्त्तते विद्वान् सदा पर्वणि पर्वणि। न हन्ति तं महादेव एवं वन्देत तं प्रभुम् ।। २७.
गोपायति दिवादित्यः प्रजा नक्तन्तु चन्द्रमाः। एकरात्रे समेयातां सूर्य्याचन्द्रमसावुभौ। अमावास्यानिशायान्तु तस्यां युक्तः सदा वसेत् ।। २७.
तत्राविष्टं सर्वमिदन्तनुभिर्नामभिः सह। एकाकी यश्चरत्येषः सूर्य्याऽसौ चन्द्र उच्यते ।। २७.
सूर्य्यस्य यत् प्रकाशेन वीक्ष्यन्ते चक्षुषा प्रजाः। शुक्लात्मा संस्थितो रुद्रः पिबत्यम्भो गभस्तिभिः ।। २७.
अद्यते पीयते चैवाप्यन्नपानात्मकानिया। तनुरात्मभवा सा वै देहेष्वेवोपचीयते ।। २७.
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन चेतसा। पार्थिवी सा तनुस्तस्य शार्वी धारयति प्रजाः ।। २७.
यावत् स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः। वाय्वात्मिका तु ऐशानी सा प्राणाः प्राणिना सह ।। २७.
पीताशितानि पचति भूतानां जठरेषु या। ततः पाशुपती तस्य पाचिका शक्तिरुच्यते ।। २७.
यानीह सुषिराणि स्युर्देहेष्वन्तर्गतानि वै। वायोः सञ्चरणार्थाय सा भीमा चोच्यते तनुः ।। २७.
वैतानदीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम्। तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ।। २७.
यत्तु सङ्कल्पकं तस्य प्रजास्विह समं स्थितम्। सा तनुर्म्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ।। २७.
नवो नवो भवति हि जायमानः पुनः पुनः। नीयते यो यथाकामं विभुधैः पितृभिः सह। महादेवोऽमृतात्माऽसौ ह्यम्मयश्चन्द्रमाः स्मृतः ।। २७.
तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्तिता। पत्नी सुवर्चला तस्य पुत्रस्तस्याः शनैश्चरः ।। २७.
भवस्य या द्वितीया तु तनुरापः स्मृता तु वै । तस्योषाऽत्र स्मृता पत्नी पुत्रश्चाप्युशना स्मृतः ।। २७.
शर्वस्य या तृतीया तु नाम भूमिस्तनुः स्मृता। पत्नी तस्य विकेशीति पुत्रश्चाङ्गारकः स्मृतः ।। २७.
ईशानस्य चतुर्थस्य स्वर्गतस्य च या तनुः। तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजवः ।। २७.
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता। तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः ।। २७.
नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते। दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चास्य सुतः स्मृतः ।। २७.
उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः स्मृता। दीक्षा पत्नी स्मृता तस्य सन्तानः पुत्र उच्यते ।। २७.
नाम्नाऽष्टमस्य महतस्तनुर्या चन्द्रमाः स्मृतः। पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः ।। २७.
इत्येतास्तनवस्तस्य नामभिः परिकीर्तिताः। तास्तु वन्द्य नमस्याश्च प्रतिनाम तनूषु वै ।। २७.
भक्तेः सूर्येऽप्सु पृथिव्यां वाय्वग्निव्योमदीक्षिते। तथा च वै चन्द्रमसि तनुभिर्नामभिः सह। प्रजावानेति सायुज्यमीश्वरस्य नरो हि सः ।। २७.