दीक्षितो ब्रह्मणश्चन्द्र इत्येते ब्रह्मधातवः। तेषु पूज्यश्च वन्द्यः स्याद्रुद्रस्तान् हिनस्ति वै ।। २७.
ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं नीललोहितम् । द्वितीयं नामधेयन्ते मया प्रोक्तं भवेति यत्। एतस्यापो द्वितीया ते तनुर्नाम्ना भविष्यति ।। २७.
इत्युक्ते यत् स्थिरं तस्य शरीरस्थं रसात्मकम्। तद्विवेश ततस्तोयं तस्मादापो भवः स्मृतः ।। २७.
यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च। भवनाद्भावनाच्चैव भूतानां सम्भवः स्मृतः ।। २७.
तस्मान्मूत्रं पुरीषञ्च नाप्सु कुर्वीत सर्वदा। न स्नायेदप्सु नग्नश्च न निष्ठीवेत् कदाचन ।। २७.
मैथुनं नैव सेवेत शिरःस्नानञ्च वर्जयेत्। न प्रीतः परिचक्षीत वहन्न संस्थितोऽपि वा ।। २७.
मेध्यामेध्यशरीरत्वान्नैव दुष्यन्त्यपः क्वचित् । विवर्णरसगन्धाश्च अल्पाश्च परिवर्जयेत् ।। २७.
अपां योनिः समुद्रश्च तस्मात्तं कामयन्ति ताः। मेध्याश्चैवामृताश्चैव भवन्ति प्राप्य सागरम् ।। २७.
तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः। न हिनस्ति भवो देवः सदैवं योऽप्सु वर्त्तते ।। २७.
ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं कृष्णलोहितम्। शर्वस्त्वमिति यन्नाम तृतीयं समुदाहृतम्। तस्य भूमिस्तृतीया तु तनुर्नाम्ना भवत्वियम् ।। २७.
इत्युक्ते यत् स्थिरं तस्य शरीरस्यास्थिसंज्ञितम्। तद्विवेश ततो भूमिस्तस्माद्भूः शर्व उच्यते ।। २७.
तस्मात् कुर्वीत नो विद्वान् पुरीषम्मूत्रमेव वा। न च्छायायां न सोपाने स्वच्छायां नापि मेहयेत् ।। २७.
शिरः प्रापृत्य कुर्वीत अन्तर्द्धाय तृणैर्महीम्। य एवं वर्त्तते भूमौ तं शर्वो न हिनस्ति वै ।। २७.
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम्। ईशान इति यत्प्रोक्तं चतुर्थं नाम ते मया ।। २७.
चतुर्थस्य चतुर्थी स्याद्वायुर्नाम्ना तनुस्तव। इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम् ।। २७.
विवेश तं तदा वायुरीशानो वायुरुच्यते। तस्मादेनं परिवदेदायतं वायुमीश्वरम्। एवं युक्तमथेशानो नैव देवो हिनस्ति तम् ।। २७.
ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं धूम्रलोहितम्। यत्ते पशुपतीत्युक्तं मया नामेह पञ्चमम्। पञ्चमी पञ्चमस्यैव तनुर्नाम्नाऽग्निरस्तु ते ।। २७.
इत्युक्ते यच्छरीरस्थं तेजस्तस्योपसंज्ञितम्। विवेश तत्तदा ह्यग्निस्तस्मात्पशुपतिः पतिः ।। २७.
चन्द्रमास्तु स्मृतः सोमस्तस्यात्मा ह्योषधीगणः। एवं यो वर्त्तते विद्वान् सदा पर्वणि पर्वणि। न हन्ति तं महादेव एवं वन्देत तं प्रभुम् ।। २७.
गोपायति दिवादित्यः प्रजा नक्तन्तु चन्द्रमाः। एकरात्रे समेयातां सूर्य्याचन्द्रमसावुभौ। अमावास्यानिशायान्तु तस्यां युक्तः सदा वसेत् ।। २७.
तत्राविष्टं सर्वमिदन्तनुभिर्नामभिः सह। एकाकी यश्चरत्येषः सूर्य्याऽसौ चन्द्र उच्यते ।। २७.
सूर्य्यस्य यत् प्रकाशेन वीक्ष्यन्ते चक्षुषा प्रजाः। शुक्लात्मा संस्थितो रुद्रः पिबत्यम्भो गभस्तिभिः ।। २७.
अद्यते पीयते चैवाप्यन्नपानात्मकानिया। तनुरात्मभवा सा वै देहेष्वेवोपचीयते ।। २७.
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन चेतसा। पार्थिवी सा तनुस्तस्य शार्वी धारयति प्रजाः ।। २७.
यावत् स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः। वाय्वात्मिका तु ऐशानी सा प्राणाः प्राणिना सह ।। २७.
पीताशितानि पचति भूतानां जठरेषु या। ततः पाशुपती तस्य पाचिका शक्तिरुच्यते ।। २७.
यानीह सुषिराणि स्युर्देहेष्वन्तर्गतानि वै। वायोः सञ्चरणार्थाय सा भीमा चोच्यते तनुः ।। २७.
वैतानदीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम्। तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ।। २७.
यत्तु सङ्कल्पकं तस्य प्रजास्विह समं स्थितम्। सा तनुर्म्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ।। २७.
नवो नवो भवति हि जायमानः पुनः पुनः। नीयते यो यथाकामं विभुधैः पितृभिः सह। महादेवोऽमृतात्माऽसौ ह्यम्मयश्चन्द्रमाः स्मृतः ।। २७.