सप्तमात्तु मुखात्तस्य ततो वैवस्वतो मनुः। ऋकारश्च स्वरस्तत्र वर्णतः कुष्ण उच्यते ।। २६.
अष्टमात्तु मुखात्तस्य ॠकारः श्यामवर्णतः। श्यामाक्षरसवर्णश्च ततः सावर्णिरुच्यते ।। २६.
मुखात्तु नवमात्तस्य लृकारो नवमः स्मृतः। धूम्रो वै वर्णतश्चापि धूम्रस्व मनुरुच्यते ।। २६.
दशमात्तु मुखात्तस्य लृकारः प्रभुरुच्यते। समश्चैव सवर्णश्च बभौ सावर्णिको मनुः ।। २६.
मुखादेकादशात्तस्य एकारो मनुरुच्यते। पिशङ्गो वर्णतश्चैव पिशङ्गो वर्ण उच्यते ।। २६.
द्वादशात्तु मुखात्तस्य ऐकारो नाम उच्यते। पिशङ्गो भस्मवर्णाभः पिशङ्गो मनुरुच्यते ।। २६.
त्रयोदशान्मुखात्तस्य ओकारो वर्ण उच्यते। पञ्चवर्णसमायुक्त ओकारो वर्ण उत्तमः ।। २६.
चतुर्द्दशमुखात्तस्य औकारो वर्ण उच्यते। कर्बूरो वर्णतश्चैव मनुः सावर्णिरुच्यते ।। २६.
इत्येते मनवश्चैव स्वरा वर्णाश्च कल्पतः। विज्ञेया हि यथातत्त्वं स्वरतो वर्णतस्तथा ।। २६.
परस्परसवर्णाश्च स्वरा यस्माद् वृता हि वै । तस्मात्तेषां सवर्णत्वादन्वयस्तु प्रकीर्तितः ।। २६.
सवर्णाः सदृशाश्चैव यस्माज्जातास्तु कल्पजाः। तस्मात् प्रजानां लोकेऽस्मिन् सवर्णाः सर्वसन्धयः ।। २६.
भविष्यन्ति यथाशैलं वर्णाश्च न्यायतोऽर्थतः। अभ्यासात्सन्धयश्चैव तस्माज्ज्ञेयाः स्वरा इति ।। २६.
अस्मिन् कल्पे त्वया चोक्तः प्रादुर्भावो महात्मनः। महादेवस्य रुद्रस्य साधकैर्मुनिभिः सह ।। २७.
उत्पत्तिरादिसर्गस्य मया प्रोक्त समासतः। विस्तरेणास्य वक्ष्यामि नामानि तनुभिः सह ।। २७.
पत्नीषु जनयामास महादेवः सुतान् बहून्। कल्पेऽष्टमे व्यतीते तु यस्मिन् कल्पे तु तच्छृणु ।। २७.
कल्पादौ चात्मानस्तुल्यं सुतं प्रध्यायतः प्रभोः। प्रादुरासीत्ततोङ्केऽस्य कुमारो नीललोहितः। तं दधे सुस्वरं घोरं निर्दहन्निव तेजसा ।। २७.
दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम्। व्क रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ।। २७.
सोऽब्रवीद्देहि मे नाम प्रथमं वै पितामह। रुद्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ।। २७.
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । नाम देहि द्वितीयं मे इत्युवाच स्वयम्भुवम् ।। २७.
भवस्त्वं देव नाम्नासि ङ्त्युक्तः सोऽरुदत्पुनः। किं रोदिषीति तं ब्रह्मा प्रत्युवाचाथ शङ्करम् ।। २७.
तृतीयं देहि मे नाम इत्युक्तः प्रत्युवाच तम्। शिवस्त्वं देव नाम्नासि इत्युक्तः प्रत्युवाच तम्। शिवस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ।। २७.
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्। चतुर्थं देहि मे नाम इत्युवाच स्वयम्भुवम् ।। २७.
पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः। किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ।। २७.
पञ्चमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्। ईशस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ।। २७.
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्। षष्ठं मे नाम देहीति इत्युवाचाथ तं प्रभुम् ।। २७.
भीमस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ।। २७.
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्। उग्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ।। २७.
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्। अष्ठमं देहि मे नाम त्वं विभो पुनरब्रवीत्। महादेवस्तु नाम्नासि इत्युक्तो विरराम ह ।। २७.
लब्ध्वा नामानि चैतानि ब्रह्मणो नीललोहितः। प्रोवाच नाम्नामेतेषां भूतानि प्रदिशेति ह ।। २७.
ततोऽभिशृष्टास्तनव एषां नाम्नां स्वयम्भुवा। सूर्यो मही जलं वह्निर्वायुराकाशमेव च ।। २७.