ततः पुनर्द्विमात्रं तु चिन्तयामास चाक्षरम्। प्रादुर्भूतं च रक्तं तच्छेदने गृह्य सा यजुः ।। २६.
इषे त्वोर्ज्जेत्वा वायवस्थ देवो वः सविता पुनः। ऋग्वेद एकमात्रस्तु द्विमात्रन्तु यजुः स्मृतम् ।। २६.
ततो वेदं द्विमात्रं तु दृष्ट्वा चैव तदक्षरम्। द्विमात्रं चिन्तयन् ब्रह्म त्वक्षरं पुनरीश्वरः ।। २६.
तस्य चिन्तयमानस्य चोङ्कारः सम्बभूव ह। ततस्तदक्षरं ब्रह्मा ओङ्कारं समचिन्तयत् ।। २६.
अथापश्यत्ततः पीतामृचं चैव समुत्थिताम्। अग्न आयाहि वीतये गृणानो हव्यदातये ।। २६.
ततस्तु स महातेजा दृष्ट्वा वेदानुपस्थितान्। चिन्तयित्वा च भगवांस्त्रिसन्ध्यं यत्र्रिरक्षरम्। त्रिवर्णं यत् त्रिषवणमोङ्कारं ब्रह्मसंज्ञितम् ।। २६.
ततश्वैव त्रिसंयोगात् त्रिवर्णं तु तदक्षरम्। लक्ष्यालक्ष्यप्रदृश्यं च सहितं त्रिदिवं त्रिकम् ।। २६.
त्रिमात्रं त्रिपदं चैव त्रियोगं चैव शाश्वतम्। तस्मात्तदक्षरं ब्रह्मा चिन्तयामास वै प्रभुः ।। २६.
तस्मात्तदक्षरं सोऽथ ब्रह्मरूपं स्वयम्भुवः। चतुर्द्दशमुखं देवं पश्यते दीप्ततेजसम्। तमोङ्कारं स कृत्वादौ विज्ञेयः स स्वयम्भुवः ।। २६.
चतुर्मुखमुखात्तस्मादजायन्त चतुर्द्दश। नानावर्णाः स्वरा दिव्यमाद्यं तच्च तदक्षरम्। तस्मात् त्रिषष्टिवर्णा वै अकारप्रभवाः स्मृताः ।। २६.
ततः साधारणार्थाय वर्णानान्तु स्वयम्भुवः। अकाररूप आदौ तु स्थितः स प्रथमः स्वरः ।। २६.
ततस्तेभ्यः स्वरेभ्यस्तु चतुर्द्दश महामुखाः। मनवः सम्प्रसूयन्ते दिव्या मन्वन्तरे स्वराः ।। २६.
चतुर्द्दशमुखो यश्च अकारो ब्रह्मसंज्ञितः। ब्रह्मकल्पः समाख्यातः सर्ववर्णः प्रजापतिः ।। २६.
मुखात्तु प्रथमात्तस्य मनुः स्वायम्भुवः स्मृतः। अकारस्तु स विज्ञेयः श्वेतवर्णः स्वयम्भुवः ।। २६.
द्वितीयात्तु मुखात्तस्य आकारो वै मुखः स्मृतः। नाम्ना स्वारोचिषो नाम वर्णः पाण्डुर उच्यते ।। २६.
तृतीयात्तु मुखात्तस्य इकारो यजुषां वरः। यजुर्मयः स चादित्यो यजुर्वेदो यतः स्मृतः ।। २६.
ईकारः स मनुर्ज्ञेयो रक्तवर्णः प्रतापवान्। ततः क्षत्रं प्रवर्त्तन्त तस्माद्रक्तस्तु क्षत्रियः ।। २६.
चतुर्थात्तु मुखात्तस्य उकारः स्वर उच्यते। वर्णतस्तु स्मृतस्ताम्रः स मनुस्तामसः स्मृतः ।। २६.
पञ्चमात्तु मुखात्तस्य ऊकारो नाम जायते। पीतको वर्णतश्चैव मनुश्चापि चरिष्णवः ।। २६.
ततः षष्ठान्मुखात्तस्य ओङ्कारः कपिलः स्मृतः। वरिष्ठश्च ततः षष्ठो विजयः स महातपाः ।। २६.
सप्तमात्तु मुखात्तस्य ततो वैवस्वतो मनुः। ऋकारश्च स्वरस्तत्र वर्णतः कुष्ण उच्यते ।। २६.
अष्टमात्तु मुखात्तस्य ॠकारः श्यामवर्णतः। श्यामाक्षरसवर्णश्च ततः सावर्णिरुच्यते ।। २६.
मुखात्तु नवमात्तस्य लृकारो नवमः स्मृतः। धूम्रो वै वर्णतश्चापि धूम्रस्व मनुरुच्यते ।। २६.
दशमात्तु मुखात्तस्य लृकारः प्रभुरुच्यते। समश्चैव सवर्णश्च बभौ सावर्णिको मनुः ।। २६.
मुखादेकादशात्तस्य एकारो मनुरुच्यते। पिशङ्गो वर्णतश्चैव पिशङ्गो वर्ण उच्यते ।। २६.
द्वादशात्तु मुखात्तस्य ऐकारो नाम उच्यते। पिशङ्गो भस्मवर्णाभः पिशङ्गो मनुरुच्यते ।। २६.
त्रयोदशान्मुखात्तस्य ओकारो वर्ण उच्यते। पञ्चवर्णसमायुक्त ओकारो वर्ण उत्तमः ।। २६.
चतुर्द्दशमुखात्तस्य औकारो वर्ण उच्यते। कर्बूरो वर्णतश्चैव मनुः सावर्णिरुच्यते ।। २६.
इत्येते मनवश्चैव स्वरा वर्णाश्च कल्पतः। विज्ञेया हि यथातत्त्वं स्वरतो वर्णतस्तथा ।। २६.
परस्परसवर्णाश्च स्वरा यस्माद् वृता हि वै । तस्मात्तेषां सवर्णत्वादन्वयस्तु प्रकीर्तितः ।। २६.