ततः स भगवान् ब्रह्मा कृष्णाजिनविभूषितः। मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः। जिह्वां सरस्वतीञ्चैव ततस्तां विश्वरूपिणीम् ।। २५.
भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम्। वसिष्ठञ्च महातेजाः ससृजे सप्त मानसान् ।। २५.
पुत्रानात्मसमानन्यान् सोऽसृजद्विश्वसम्भवान् । तेषां भूयोऽनुमार्गेण गावो वक्राद्विजज्ञिरे ।। २५.
ओङ्कारप्रमुखान् वेदानभिमान्याश्च देवताः। एवमेतान् यताप्रोक्तान् ब्रह्मा लोकपितामहः ।। २५.
दक्षाद्यान् मानसान् पुत्रान् प्रोवाच भगवान् प्रभुः। प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ।। २५.
अनुगम्य महात्मानं प्रजानां पतयस्तदा। वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह। ब्रह्मणस्त्वेष सन्देशस्तव चैव महेश्वर ।। २५.
तैरेवमुक्तो भगवान् रुद्रः प्रोवाच तान् प्रभुः। ब्रह्मणश्चात्मजा मह्यं प्राणान् गृह्य च वै सुराः ।। २५.
कृत्वाग्रजाग्रजानेतान् ब्राह्मणानात्मजान्मम। ब्रह्मादिस्तम्बपर्यन्तान् सप्तलोकान्ममात्मकान्। भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ।। २५.
तेनैवमुक्ताः प्रत्यूचुः रुद्रमाद्यन्त्रिशूलिनम्। यथाज्ञापयसे देव तथा तद्वै भविष्यति ।। २५.
अनुमान्य महादेवं प्रजानां पतयस्तदा। ऊचुर्दक्षं महात्मानं भवान् श्रेष्ठः प्रजापतिः। त्वां पुरस्कृत्य भद्रन्ते प्रजाः स्रक्ष्यामहे वयम् ।। २५.
एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम्। तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः। सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्गमथासृजत् ।। २५.
अथास्य सप्तमेऽतीते कल्पे वै सम्बभूवतुः। ऋभुः सनत्कुमारश्च तपो लोकनिवासिनौ। ततौ महर्षीनन्यान् स मानसानसृजत् प्रभुः ।। २५.
अहो विस्मयनीयानि रहस्यानि महामते। त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ।। २६.
तत्र वै संशयो मह्यमवता (वा) रेषु शूलिनः। किं कारणं महादेवः कलिं प्राप्य सुदारुणम्। हित्वा युगानि पूर्वाणि अवतारं करोति वै ।। २६.
अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो। अवतारं कथञ्चक्रे एतदिच्छामि वेदितुम् ।। २६.
न तेऽस्त्यविदितं किञ्चिदिह लोके परत्र च। भक्तानामुपदेशार्थं विनयात् पृच्छतो मम। कथयस्व महाप्राज्ञ यदि श्राव्यं महामतम् ।। २६.
एवं पृष्टोऽथ भगवान् वायुर्लोकहिते रतः। इदमाह महातेजा वायुर्लोकनमस्कृतः ।। २६.
एतद्घुप्ततमं लोके यन्मान्त्वं परिपृच्छसि। तत्सर्वं श्रृणु गाधेय उच्यमानं यथाक्रमम् ।। २६.
पुरा ह्येकार्णवे वृत्ते दिव्ये वर्षसहस्रके। स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःशितः ।। २६.
तस्य चिन्तयमानस्य प्रादुर्भूतः कुमारकः। दिव्यगन्धः सुधापेक्षी दिव्यां श्रुतिमुदीरयन् ।। २६.
अशब्दस्पर्शरूपान्तामगन्धां रसवर्ज्जिताम्। श्रुतिं ह्युदीरयन् देवो यामविन्दच्चतुर्म्मुखः ।। २६.
ततस्तु ध्यानसंयुक्तस्तप आस्थाय भैरवम्। चिन्तयामास मनसा त्रितयं कोऽन्वयन्त्विति ।। २६.
तस्य चिन्तयमानस्य प्रादुर्भूतं तदक्षरम्। अशब्दस्पर्शरूपञ्च रसगन्धविवर्ज्जितम् ।। २६.
अथोत्तमं स लोकेषु स्वमूर्त्तिञ्चापि पश्यति। ध्यायन्वै स तदा देवमथैनं पश्यते पुनः ।। २६.
तं श्वेतमथ रक्तञ्च पीतं कृष्णं तदा पुनः। वर्णस्थं तत्र पश्येत न स्त्री न च नपुंसकम् ।। २६.
तत्सर्वं सुचिरं ज्ञात्वा चिन्तयन् हि तदक्षरम् । तस्य चिन्तयमानस्य कण्ठादुत्तिष्ठतेऽक्षरः ।। २६.
एकमात्रो महाघोषः श्वेतवर्णः सुनिर्मलः। स ओङ्कारो भवेद्वेदः अक्षरं वै महेश्वरः ।। २६.
ततश्चिन्तयमानस्य त्वक्षरं वै स्वयम्भुवः। प्रादुर्भूतन्तु रक्तन्तु स देवः प्रथमः स्मृतः ।। २६.
ऋग्वेदं प्रथमं तस्य त्वग्निमीळे पुरोहितम्। एतां दृष्ट्वा ऋचं ब्रह्मा चिन्तयामास वै पुनः। तदक्षरं महातेजाः किमेतदिति लोककृत् ।। २६.
तस्य चिन्तयमानस्य तस्मिन्नथ महेश्वरः । द्विमात्रमक्षरं जज्ञे ईशित्वेन द्विमात्रिकम् ।। २६.