ब्रह्मणः सोऽददात् प्राणानात्मजः स तदा प्रभुः। प्रहृष्टवदनो रुद्रः किंचित् प्रत्यागतासवम्। अभ्यभाषत्तदा देवो ब्रह्माणं परमं वचः ।। २५.
उपयाचस्व मां ब्रह्मन् स्मर्त्तुमर्हसि चात्मनः। मां च वेत्थात्मजं रुद्रं प्रसादं कुरु मे प्रभो ।। २५.
श्रुत्वा त्विदं वचस्तस्य प्रभूतञ्च मनोगतम्। पितामहः प्रसन्नात्मा नेत्रे फुल्लाम्बुजप्रभैः ।। २५.
ततः प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा। उवाच भगवान् ब्रह्मा शुद्धजाम्बूनदप्रभः ।। २५.
भो भो वद महाभाग आनन्दयसि मे मनः। को भवान् विश्वभूतिस्त्वं स्थित एकादशात्मकः ।। २५.
एवमुक्तो भगवता ब्रह्मणाऽनन्ततेजसा। ततः प्रत्यवदद्रुद्रो ह्यभिवाद्यात्मजैः सह ।। २५.
यत्ते वरमहं ब्रह्मन् याचितो विष्णुना सह। पुत्रो मे भव देवेति त्वत्तुल्यो वापि धूर्वहः ।। २५.
लोकेषु विश्रुतैः कार्यं सर्वैर्विश्वात्मसम्भवैः। विषादन्त्यज देवेश लोकांस्त्वं स्रष्टुमर्हसि ।। २५.
एवं स भगवानुक्तो ब्रह्मा प्रीतमनाभवत् । रुद्रं प्रत्यवदद्भूयो लोकान्ते नीललोहितम् ।। २५.
साहाय्यं मम कार्यार्थं प्रजाः सृज मया सह। बीजी त्वं सर्वभूतानां तत्प्रपन्नस्तथा भव। बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ।। २५.
ततः स भगवान् ब्रह्मा कृष्णाजिनविभूषितः। मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः। जिह्वां सरस्वतीञ्चैव ततस्तां विश्वरूपिणीम् ।। २५.
भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम्। वसिष्ठञ्च महातेजाः ससृजे सप्त मानसान् ।। २५.
पुत्रानात्मसमानन्यान् सोऽसृजद्विश्वसम्भवान् । तेषां भूयोऽनुमार्गेण गावो वक्राद्विजज्ञिरे ।। २५.
ओङ्कारप्रमुखान् वेदानभिमान्याश्च देवताः। एवमेतान् यताप्रोक्तान् ब्रह्मा लोकपितामहः ।। २५.
दक्षाद्यान् मानसान् पुत्रान् प्रोवाच भगवान् प्रभुः। प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ।। २५.
अनुगम्य महात्मानं प्रजानां पतयस्तदा। वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह। ब्रह्मणस्त्वेष सन्देशस्तव चैव महेश्वर ।। २५.
तैरेवमुक्तो भगवान् रुद्रः प्रोवाच तान् प्रभुः। ब्रह्मणश्चात्मजा मह्यं प्राणान् गृह्य च वै सुराः ।। २५.
कृत्वाग्रजाग्रजानेतान् ब्राह्मणानात्मजान्मम। ब्रह्मादिस्तम्बपर्यन्तान् सप्तलोकान्ममात्मकान्। भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ।। २५.
तेनैवमुक्ताः प्रत्यूचुः रुद्रमाद्यन्त्रिशूलिनम्। यथाज्ञापयसे देव तथा तद्वै भविष्यति ।। २५.
अनुमान्य महादेवं प्रजानां पतयस्तदा। ऊचुर्दक्षं महात्मानं भवान् श्रेष्ठः प्रजापतिः। त्वां पुरस्कृत्य भद्रन्ते प्रजाः स्रक्ष्यामहे वयम् ।। २५.
एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम्। तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः। सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्गमथासृजत् ।। २५.
अथास्य सप्तमेऽतीते कल्पे वै सम्बभूवतुः। ऋभुः सनत्कुमारश्च तपो लोकनिवासिनौ। ततौ महर्षीनन्यान् स मानसानसृजत् प्रभुः ।। २५.
अहो विस्मयनीयानि रहस्यानि महामते। त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ।। २६.
तत्र वै संशयो मह्यमवता (वा) रेषु शूलिनः। किं कारणं महादेवः कलिं प्राप्य सुदारुणम्। हित्वा युगानि पूर्वाणि अवतारं करोति वै ।। २६.
अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो। अवतारं कथञ्चक्रे एतदिच्छामि वेदितुम् ।। २६.
न तेऽस्त्यविदितं किञ्चिदिह लोके परत्र च। भक्तानामुपदेशार्थं विनयात् पृच्छतो मम। कथयस्व महाप्राज्ञ यदि श्राव्यं महामतम् ।। २६.
एवं पृष्टोऽथ भगवान् वायुर्लोकहिते रतः। इदमाह महातेजा वायुर्लोकनमस्कृतः ।। २६.
एतद्घुप्ततमं लोके यन्मान्त्वं परिपृच्छसि। तत्सर्वं श्रृणु गाधेय उच्यमानं यथाक्रमम् ।। २६.
पुरा ह्येकार्णवे वृत्ते दिव्ये वर्षसहस्रके। स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःशितः ।। २६.
तस्य चिन्तयमानस्य प्रादुर्भूतः कुमारकः। दिव्यगन्धः सुधापेक्षी दिव्यां श्रुतिमुदीरयन् ।। २६.