उपदानवी यमस्यापि शर्मिष्ठा वार्ष पर्वणी। पुलोमा कालिका चैव वैश्वानरसुते उभे ।। ७.
प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः। पुरुंजज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ।। ७.
वैश्वानरसुते ह्येते पुलोमा कालिका उभे । उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे । ७.
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः। चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ।। ७.
पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः। अवध्या दानवानां ते निहताः सव्यसाचिना ।। ७.
मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः। मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ।। ७.
बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा। दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः ।। ७.
दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः। अरूरुर्बालिजम्भौ च विरक्षश्च विषस्तथा ।। ७.
अरुरो स्तनयः क्रूरो धुन्धुर्नाम महासुरः। निहतः कुवलाश्वेन उत्तङ्कवचनात् किल ।। ७.
बलेः पुत्रौ महावीर्यौ तेजसाप्रतिमावुभौ। कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ।। ७.
विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ। विषस्य त्वभवन् पुत्राश्चत्वारः क्रूरकर्मणः। श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ।। ७.
क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत। जज्ञिरे श्वसनाद्धोराद्वृत्रस्येन्द्रेण युध्यतः ।। ७.
भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ।। ७.
सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः। प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ।। ७.
दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः। प्रवाह्यजनयत् पुत्रान् यज्ञे वै गायनोत्तमान् ।। ७.
सत्त्वनः सत्वात्मकश्चैव कलापश्चैव वीर्यवान् । कृतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ।। ७.
पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा। इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्त्तिताः ।। ७.
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्त्तिताः। चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा ॥ ८.
धृतराष्ट्रः पुलोमा च सूर्यवर्च्चास्तथैव च। युगपत्तृणपत्कालिर्दितिश्चित्ररथ स्तथा ॥ ८.
त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः। कलिः पञ्चदशश्वैव नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥ ८.
चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ॥ ८.
मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा। मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ८.
अद्रिका लक्षणा चैव देवी रम्भा मनोरमा। सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ८.
पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा। हेमासरा सुती चैव सुवृत्ता कमला च या ॥ ८.
सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा। गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८.
गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः। तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ॥ ८.
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् । विद्यावती चारुमुखी सुमुखी च वरानना ॥ ८.
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः। प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ॥ ८.
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा। मेघमालीतु यक्षाणां गण एष उदाहृतः ॥ ८.
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः। तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ॥ ८.