ततस्तौ प्रोचतुर्द्दैत्यौ ब्रह्माणं दारुणं वचः। अस्माकं युध्यमानानां मध्ये वै प्राश्निको भव ।। २५.
ततस्तौ जलमाविश्य संस्तम्भ्यापः स्वमायया । चक्रतुस्तुमुलं युद्धं यस्य येनेप्सितं तदा ।। २५.
तेषान्तु युध्यमानानां दिव्यं वर्षशतङ्गतम्। न च युद्धमदोत्सेको ह्यन्योन्यं संन्यवर्त्तत ।। २५.
लक्षणद्वयसंस्थानाद्रूपवन्तौ स्थितेङ्गितौ। सादृश्याद्व्याकुलमना ब्रह्मा ध्यानमुपागमत् ।। २५.
स तयोरन्तरं बुद्ध्वा ब्रह्मा दिव्येन चक्षुषा। पद्मकेसरजं सूक्ष्मं बबन्ध कवचन्तयोः। आमेखलञ्च गात्रञ्च ततो मन्त्रमुदाहरत् ।। २५.
जपतस्त्वभवत्कन्या विश्वरूपसमुत्थिता। पद्मेन्दुवदनप्रख्या पद्महस्ता शुभा सती। तां दृष्ट्वा व्यथितौ दैत्यौ भयाद्वर्णविवर्ज्जितौ ।। २५.
ततः प्रोवाच तां कन्यां ब्रह्मा मधुरया गिरा। काऽत्र त्वमवगन्तव्या ब्रूहि सत्यमनिन्दिते ।। २५.
साम्ना संपूज्य सा कन्या ब्रह्माणं प्राञ्जलिस्तदा । मोहिनीं विद्धि मां मायां विष्णोः सन्देशकारिणीम् ।। २५.
त्वया सङ्कीर्त्त्यमानाऽहं ब्रह्मन् प्राप्ता त्वरायुता। अस्याः प्रीतमना ब्रह्मा गौणं नाम चकार ह ।। २५.
मया च व्याहृता यस्मात्त्वञ्चैव समुपस्थिता। महाव्याहृतिरित्येव नाम ते विचरिष्यति ।। २५.
उत्थिता च शिरो भित्त्वा सावित्री तेन चोच्यते। एकानंशात्तु यस्मात्त्वमनेकांशा भविष्यसि ।। २५.
गौणानि तावदेतानि कर्मजान्यपराणि च। नामानि ते भविष्यन्ति मत्प्रसादात् शुभानने ।। २५.
ततस्तौ पीड्यमानौ तु वरमेनमयाचताम्। अनावृतं नौ मरणं पुत्रत्वञ्च भवेत्तव ।। २५.
तथेत्युक्त्वा ततस्तूर्णमनयत् यमसादनम्। अनयत् कैटभं विष्णुर्जिष्णुश्चाप्यनयन्मधुम् ।। २५.
एवन्तौ निहतौ दैत्यौ विष्णुना जिष्णुना सह। प्रीतेन ब्रह्मणा चाथ लोकानां हितकाम्यया ।। २५.
पुत्रत्वमीशेन यथा ह्यात्मा दत्तो निबोधत। विष्णुना जिष्णुना सार्द्धं मधुकैटभयोस्तथा। सम्पराये व्यतिक्रान्ते ब्रह्मा विष्णुमभाषत ।। २५.
अद्य वर्षशतं पूर्णं समयः प्रत्युपस्थितः। संक्षेपसंप्लवङ्घोरं स्वस्थानं यामि चाप्यहम् ।। २५.
स तस्य वचसा देवः संहारमकरोत्तदा। महीं निस्थावरां कृत्वा प्रकृतिस्थांश्च जङ्गमान् ।। २५.
यदि गोविन्द भद्रन्ते क्षिप्तस्ते यादसां पतिः। ब्रूहि यत् करणीयं स्यान्मया ते लक्ष्मिवर्द्धन ।। २५.
बाढं श्रृणु हेमाभ पद्मयोने वचो मम । प्रसादो यस्त्वया लब्ध ईश्वरात् पुत्रलिप्सया ।। २५.
तन्तथा सफलं कृत्वा मत्तोऽभूदनृणो भवान्। चतुर्विधानि भूतानि सृज त्वं विसृजस्व वा ।। २५.
अवाप्य संज्ञाङ्गोविन्दात् पद्मयोनिः पितामहः। प्रजाः स्रष्टुमनास्तेपे तप उग्रं ततो महत् ।। २५.
तस्यैवन्तप्यमानस्य न किञ्चित्समवर्त्तत। ततो दीर्घेण कालेन दुःखात् क्रोधो व्यवर्द्धत ।। २५.
सक्रोधाविष्टनेत्रभ्यामपतन्नश्रुबिन्दवः । ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः ।। २५.
महाभागा महासत्त्वाः स्वस्तिकैरभ्यलङ्कृताः। प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः ।। २५.
सर्पांस्तथाग्रजान् दृष्ट्वा ब्रह्मात्मानमनिन्दत। अहो धिक् तपसा मह्यं फलमीदृशकं यदि। लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ।। २५.
तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा। मूर्च्छाभितापेन तदा जहौ प्राणान् प्रजापतिः ।। २५.
तस्याप्रतिमवीर्यस्य देहात् कारुण्यपूर्वकम्। आत्मैकादश ते रुद्राः प्रोद्भूता रुदतस्तथा। रोदनात् खलु रुद्रास्ते रुद्रत्वं तेन तेषु तत् ।। २५.
ये रुद्राः खलु ते प्राणा ये प्राणास्ते तदात्मकाः। प्राणाः प्राणभृतां ज्ञेयाः सर्वभूतेष्ववस्थिताः ।। २५.
अत्युग्रस्य महत्त्वस्य साधुना चरितस्य च। तस्य प्राणान् ददौ भूयस्त्रिशूली नीललोहितः। ललाटात् पद्मयोनेस्तु प्रभुरेकादशात्मकः ।। २५.