अथ दीर्घण कालेन तत्राप्यप्रतिमावुभौ। महाबलौ महासत्त्वौ भ्रातरौ मधुकैटभौ ।। २५.
ऊचतुश्वैव वचनं भक्ष्यो वै नौ भविष्यसि । एवमुक्त्वा तु तौ तस्मिन्नन्तर्द्धानं गतावुभौ ।। २५.
दारुणन्तु तयोर्भावं ज्ञात्वा पुष्करसम्भवः । माहात्म्यं चात्मनो बुद्ध्वा विज्ञातुमुपचक्रमे ।। २५.
कर्णिकाघटनं भूयो नाभ्यजानाद्यदा गतिम्। ततः स पद्मनालेन अवतीर्य्य रसातलम्। कृष्णाजिनोत्तरासङ्गन्ददृशेऽन्तर्जले हरिम् ।। २५.
स च तं बोधयामास विबुद्धं चेदमब्रवीत् । भूतेभ्यो मे भयं देव त्रायस्वोत्तिष्ठ शङ्कुरु ।। २५.
ततः स भगवान् विष्णुः सप्रहासमरिन्दमः। न भेतव्यं न भेतव्यमित्युवाच मुनिः स्वयम् ।। २५.
तस्मात्पूर्वं त्वया चोक्तं भूतेभ्यो मे महद्भयम्। तस्माद्भूतादिवाक्यैस्तौ दैत्यौ त्वं नाशयिष्यसि ।। २५.
भूर्भूवःस्वस्ततो देवं विविशुस्तमयोनिजम् । ततः प्रदक्षिणं कृत्वा तमेवासीनमागतम् ।। २५.
गते तस्मिंततोऽनन्त उद्गीर्य भ्रातरौ मुखात्। विष्णुं जिष्णुञ्च प्रोवाच ब्रह्माणमभिरक्षताम्। मधुकैटभयोर्ज्ञात्वा तयोरागमनं पुनः ।। २५.
चक्राते रूप सादृश्यं विष्णोर्जिष्णोश्च सत्तमौ। कृतसादृश्यरूपौ तौ तावेवाभिमुखौ स्थितौ ।। २५.
ततस्तौ प्रोचतुर्द्दैत्यौ ब्रह्माणं दारुणं वचः। अस्माकं युध्यमानानां मध्ये वै प्राश्निको भव ।। २५.
ततस्तौ जलमाविश्य संस्तम्भ्यापः स्वमायया । चक्रतुस्तुमुलं युद्धं यस्य येनेप्सितं तदा ।। २५.
तेषान्तु युध्यमानानां दिव्यं वर्षशतङ्गतम्। न च युद्धमदोत्सेको ह्यन्योन्यं संन्यवर्त्तत ।। २५.
लक्षणद्वयसंस्थानाद्रूपवन्तौ स्थितेङ्गितौ। सादृश्याद्व्याकुलमना ब्रह्मा ध्यानमुपागमत् ।। २५.
स तयोरन्तरं बुद्ध्वा ब्रह्मा दिव्येन चक्षुषा। पद्मकेसरजं सूक्ष्मं बबन्ध कवचन्तयोः। आमेखलञ्च गात्रञ्च ततो मन्त्रमुदाहरत् ।। २५.
जपतस्त्वभवत्कन्या विश्वरूपसमुत्थिता। पद्मेन्दुवदनप्रख्या पद्महस्ता शुभा सती। तां दृष्ट्वा व्यथितौ दैत्यौ भयाद्वर्णविवर्ज्जितौ ।। २५.
ततः प्रोवाच तां कन्यां ब्रह्मा मधुरया गिरा। काऽत्र त्वमवगन्तव्या ब्रूहि सत्यमनिन्दिते ।। २५.
साम्ना संपूज्य सा कन्या ब्रह्माणं प्राञ्जलिस्तदा । मोहिनीं विद्धि मां मायां विष्णोः सन्देशकारिणीम् ।। २५.
त्वया सङ्कीर्त्त्यमानाऽहं ब्रह्मन् प्राप्ता त्वरायुता। अस्याः प्रीतमना ब्रह्मा गौणं नाम चकार ह ।। २५.
मया च व्याहृता यस्मात्त्वञ्चैव समुपस्थिता। महाव्याहृतिरित्येव नाम ते विचरिष्यति ।। २५.
उत्थिता च शिरो भित्त्वा सावित्री तेन चोच्यते। एकानंशात्तु यस्मात्त्वमनेकांशा भविष्यसि ।। २५.
गौणानि तावदेतानि कर्मजान्यपराणि च। नामानि ते भविष्यन्ति मत्प्रसादात् शुभानने ।। २५.
ततस्तौ पीड्यमानौ तु वरमेनमयाचताम्। अनावृतं नौ मरणं पुत्रत्वञ्च भवेत्तव ।। २५.
तथेत्युक्त्वा ततस्तूर्णमनयत् यमसादनम्। अनयत् कैटभं विष्णुर्जिष्णुश्चाप्यनयन्मधुम् ।। २५.
एवन्तौ निहतौ दैत्यौ विष्णुना जिष्णुना सह। प्रीतेन ब्रह्मणा चाथ लोकानां हितकाम्यया ।। २५.
पुत्रत्वमीशेन यथा ह्यात्मा दत्तो निबोधत। विष्णुना जिष्णुना सार्द्धं मधुकैटभयोस्तथा। सम्पराये व्यतिक्रान्ते ब्रह्मा विष्णुमभाषत ।। २५.
अद्य वर्षशतं पूर्णं समयः प्रत्युपस्थितः। संक्षेपसंप्लवङ्घोरं स्वस्थानं यामि चाप्यहम् ।। २५.
स तस्य वचसा देवः संहारमकरोत्तदा। महीं निस्थावरां कृत्वा प्रकृतिस्थांश्च जङ्गमान् ।। २५.
यदि गोविन्द भद्रन्ते क्षिप्तस्ते यादसां पतिः। ब्रूहि यत् करणीयं स्यान्मया ते लक्ष्मिवर्द्धन ।। २५.
बाढं श्रृणु हेमाभ पद्मयोने वचो मम । प्रसादो यस्त्वया लब्ध ईश्वरात् पुत्रलिप्सया ।। २५.