योगेन त्वान्ध्यानिनो नित्ययुक्ताः ज्ञात्वा भोगान् सन्त्यजन्ते पुनस्तान् । येऽन्ये मर्त्त्यास्त्वां प्रपन्ना विशुद्धास्ते कर्मभिर्दिव्यभोगान् भजन्ते ।। २४.
अप्रमेयस्य तत्त्वस्य यथा विझः स्वशक्तितः। कीर्तितं तव माहात्म्यमपारं परमात्मनः। शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ।। २४.
संपिबन्निव तौ दृष्ट्वा मधुपिङ्गायतेक्षणः । प्रहृष्टवदनोऽत्यर्थमभवच्च स्वकीर्त्तनात् ।। २५.
उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः। पिनाकी खण्डपरशुर्भूतप्रान्तस्त्रिलोचनः ।। २५.
ततः स भगवान् देवः श्रुत्वा वाक्यामृतं तयोः। जानन्नपि महाभागः प्रीतपूर्वमथाब्रवीत् ।। २५.
कौ भवन्तौ महात्मानौ परस्परहितैषिणौ। समेतावम्बुजाभाक्षौ तस्मिन् घोरे जलप्लवे ।। २५.
तावूचतूर्महात्मानौ सन्निरीक्ष्य परस्परम्। भगवन् किञ्च तथ्येन विज्ञातेन त्वया विभो। कुत्र वा सुखमानन्त्यमिच्छाचारमृते त्वया ।। २५.
उवाच भगवान् देवो मधुरश्लक्ष्णया गिरा। भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण वदाम्यहम् ।। २५.
प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया। भवन्तौ माननीयौ वै मम ह्यर्हतरावुभौ। युवाभ्यां किं ददाम्यद्य वराणां वरमुत्तमम् ।। २५.
तेनैवमुक्ते वचने ब्रह्माणं विष्णुरब्रवीत् । ब्रूहि ब्रूहि महाभाग वरो यस्ते विवक्षितः ।। २५.
प्रजाकामोऽस्म्यहं विष्णो पुत्रमिच्छामि धूर्वहम्। ततः स भगवान् ब्रह्मा वेरप्सुः पुत्रलिप्सया ।। २५.
अथ विष्णुरुवाचेदं प्रजाकामं प्रजापतिम्। वीरमप्रतिमं पुत्रं यत्त्वमिच्छसि धूर्वहम् ।। २५.
पुत्रत्वेनाभियुङ्क्ष्व त्वं देवदेवं महेश्वरम्। सतस्य वाक्यं संपूज्य केशवस्य पितामहः ।। २५.
ईशानं वरदं रुद्रमभिवाद्य कृताञ्जलिः । उवाच पुत्रकामस्तु वाक्यानि सह विष्णुना ।। २५.
यदि मे भगवान् प्रीतः पुत्रकामस्य नित्यशः। पुत्रो मे भव विश्वात्मन् स्वतुल्यो वापि धूर्व्वहः। नान्यं वरमहं वव्रे प्रीते त्वयि महेश्वर ।। २५.
तस्य तां प्रार्थनां श्रुत्वा भगवान् भगनेत्रहा। निष्कल्मषममायञ्च बाढमित्यब्रवीद्वचः ।। २५.
यदा कार्यसमारम्भे कस्मिंश्चित्तव सुव्रत। अनिष्णत्तौ च कार्यस्य क्रोधस्त्वां समुपेष्यति। आत्मैकादश ये रुद्रा विहिताः प्राण हेतवः ।। २५.
सोऽहमेकादशात्मा वै शूलहस्तः सहानुगः। ऋषिर्म्मित्रो महात्मा वै ललाटाद्भविता तदा ।। २५.
प्रसादमतुलं कृत्वा ब्रह्मणस्तादृशं पुरा। विष्णुं पुनरुवाचेदं ददामि च वरन्तव ।। २५.
स होवाच महाभागो विष्णुर्भवमिदं वचः। सर्व्वमेतत् कृतं देव परितुष्टोऽसि मे यदि। त्वयि मे सुप्रतिष्ठाऽस्तु भक्तिरम्बुदवाहन ।। २५.
एवमुक्तस्ततो देवस्तमभाषत केशवम्। विष्णो श्रृणु यथा देव प्रीतोऽहन्तव शाश्वत ।। २५.
प्रकाशञ्चाप्रकाशञ्च जङ्गमं स्थावरञ्च यत् । विश्वरूपमिदं सर्व्वं रुद्रनारायणात्मकम् ।। २५.
अहमग्निर्भवान् सोमो भवान् रात्रिरहं दिनम्। भवानृतमहं सत्यं भवान् क्रतुरहं फलम् ।। २५.
भवान् ज्ञानमहं ज्ञेयं यज्जपित्वा सदा जनाः । मां विशन्ति त्वयि प्रीते जनाः सुकृतकारिणः। आवाभ्यां सहिता चैव गतिर्नान्या युगक्षये ।। २५.
आत्मानं प्रकृतिं विद्धि मां विद्धि पुरुषं शिवम्। भवानर्द्धशरीरं मे त्वहन्तव यथैव च ।। २५.
वामपार्श्वमहम्मह्यं श्यामं श्रीवत्सलक्षणम् । त्वञ्च वामेतरं पार्श्वं त्वहं वै नीललोहितः ।। २५.
त्वञ्च मे ह्वदयं विष्णो तव चाहं हृदि स्थितः। भवान् सर्व्वस्य कार्यस्य कर्त्ताहमधिदैवतम् ।। २५.
तदेहि स्वस्ति ते वत्स गमिष्याम्यम्बुदप्रभ। एवमुक्त्वा गतो विष्णोर्देवोऽन्तर्द्धानमीश्वरः ।। २५.
ततः सोऽन्तर्हिते देवे संप्रहृष्टस्तदा पुनः। अशेत शयने भूप प्रविश्यान्तर्जले हरिः ।। २५.
तं पद्मं पद्मगर्भाभं पद्माक्षः पद्मसम्भवः। सम्प्रहृष्टमना ब्रह्मा भेजे ब्राह्मं तदासनम् ।। २५.