प्रणवप्रणवेशाय भक्तानां शर्मदाय च। मृगव्याधाय दक्षाय दक्षयज्ञहराय च ।। २४.
सर्वभूताय भूताय सर्वेशातिशयाय च। पुरभेत्रे च शान्ताय सुगन्धाय वरेशवे ।। २४.
पुष्पवन्तस्वरुपाय भगनेत्रान्तकाय च । कणादाय वरिष्ठाय कामाङ्गदहनाय च ।। २४.
रवेः करालचक्राय नागेन्द्रदमनाय च। दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ।। २४.
श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे। नमस्ते प्राणपालाय धवमालाधराय च ।। २४.
प्रहीणशोकैर्विविधैर्भूतैः परिष्टुताय च। नरनारीशरीराय देव्याः प्रियकराय च ।। २४.
जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने । नमोऽस्तु नृत्यशीलाय वाद्यनृत्यप्रियाय च ।। २४.
मन्यवे शीतशीलाय सुगीतिगायते नमः। कटककराय भीमाय चोग्ररूपधराय च ।। २४.
विभीषणाय भीमाय भगप्रमथनाय च। सिद्धसङ्घातगीताय महाभागाय वै नमः ।। २४.
नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च। नदते कूर्दते चैव नमः प्रमुदिताय च ।। २४.
नमोऽद्भुताय स्वपते धावते प्रस्थिताय च। ध्यायते जृम्भते चैव तुदते द्रवते नमः ।। २४.
चलते क्रीडते चैव लम्बोदरशरीरिणे। नमः कृताय कम्पाय मुण्डाय विकराय च ।। २४.
नम उन्मत्तवेषाय किङ्किणीकाय वै नमः। नमो विकृतवेषाय क्रूरोग्रामर्षणाय च ।। २४.
अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च। नमः प्रियाय वादाय मुद्रामणिधराय च ।। २४.
नमस्तोकाय तनवे गुणैरप्रतिमाय च। नमो गणाय गुह्याय अगम्यागमनाय च ।। २४.
लोक धात्री त्वियं भूमिः पादौ सज्जनसेवितौ। सर्व्वेषां सिद्धयोगानामधिष्ठानन्तवोदरम् ।। २४.
मध्येऽन्तरिक्षं विस्तीर्णन्तारागणविभूषितम्। तारापथ इवा भाति श्रीमान् हारस्तवोरसि ।। २४.
दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः। विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ।। २४.
कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः । दंष्ट्राकरालदुर्द्धर्षमनौपम्यं मुखं तव ।। २४.
पझमालाकृतोष्णीषं शीर्षण्यं शोभते कथम्। दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्ये भूर्ह्यनिलो बले ।। २४.
तैक्ष्ण्यमग्नौ प्रभा चन्द्रे खे शब्दः शैत्यमप्सु च। अक्षरोत्तमनिष्पन्दान् गुणानेतान्विदुर्बुधाः ।। २४.
जपो जप्यो महायोगी महादेवो महेश्वरः। पुरेशयो गुहावासी खेचरो रजनीचरः ।। २४.
तपोनिधिर्गुहगुरुर्नन्दनो नन्दिवर्द्धनः। हयशीर्षो धराधाता विधाता भूतिवाहनः ।। २४.
बोद्धव्यो बोधनो नेता धूर्वहो दुष्प्रकम्पकः। बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः ।। २४.
घण्टाप्रियो ध्वजीछत्री पताकाध्वजिनीपतिः। कवची पट्टिशी शङ्खी पाशहस्तः परश्वभृत् ।। २४.
अगमस्त्वनघः शूरो देवराजारिमर्दनः। त्वां प्रसाद्य पुराऽस्माभिर्द्विषन्तो निहता युधि ।। २४.
अग्निस्त्वं चार्णवान् सर्वान् पिभन्नैव न तृप्यसे। क्रोधागारः प्रसन्नात्मा कामहा कामदः प्रियः ।। २४.
ब्रह्मण्यो ब्रह्मचारी च गोघ्नस्त्वं शिष्टपूजितः। वेदानामव्ययः कोशस्त्वया यज्ञः प्रकल्पितः ।। २४.
हव्यञ्च वेदं वहति वेदोक्तं हव्यवाहनः। प्रीते त्वयि महादेव वयं प्रीता भवामहे ।। २४.
भवानीशो नादिमान् धामराशिर्ब्रह्मम लोकानान्त्वं कर्त्ता त्वादिसर्गः। साङ्ख्याः प्रकृतिभ्यः परमं त्वां विदित्वा क्षीणध्यानास्ते न मृत्युं विशन्ति ।। २४.