दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च। नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ।। २४.
पिशिताय पिशङ्गाय पीताय च निषङ्गिणे। नमस्ते सविशेषाय निर्विशेषाय वै नमः ।। २४.
नमो वै पझवर्णाय मृत्युघ्नाय च मृत्यवे । नमः श्यामाय गौराय कद्रवे रोहिताय च ।। २४.
नमः कान्ताय सन्ध्याभ्रवर्णाय बहुरूपिणे। नमः कपालहस्ताय दिग्वस्त्राय कपर्द्दिने ।। २४.
अप्रमेयाय शर्वाय ह्यवध्याय वराय च। पुरस्तात् पृष्ठतश्चैव बिभ्राणाय कृशानवे ।। २४.
दुर्गाय महते चैव रोधाय कपिलाय च। अर्कप्रभशरीराय बलिने रंहसाय च ।। २४.
पिनाकिने प्रसिद्धाय स्फीताय प्रसृताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ।। २४.
चित्राय चित्रवर्णाय विचित्राय धराय च। चेकितानाय तुष्टाय नमस्त्वनिहिताय च ।। २४.
नमः क्षान्ताय शान्ताय वज्रसंहननाय च। रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्द्ध्वरेतसे ।। २४.
अरिहाय कृतान्ताय तिग्मायुधधराय च। समोदाय प्रमोदाय इरिणायैव ते नमः ।। २४.
प्रणवप्रणवेशाय भक्तानां शर्मदाय च। मृगव्याधाय दक्षाय दक्षयज्ञहराय च ।। २४.
सर्वभूताय भूताय सर्वेशातिशयाय च। पुरभेत्रे च शान्ताय सुगन्धाय वरेशवे ।। २४.
पुष्पवन्तस्वरुपाय भगनेत्रान्तकाय च । कणादाय वरिष्ठाय कामाङ्गदहनाय च ।। २४.
रवेः करालचक्राय नागेन्द्रदमनाय च। दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ।। २४.
श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे। नमस्ते प्राणपालाय धवमालाधराय च ।। २४.
प्रहीणशोकैर्विविधैर्भूतैः परिष्टुताय च। नरनारीशरीराय देव्याः प्रियकराय च ।। २४.
जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने । नमोऽस्तु नृत्यशीलाय वाद्यनृत्यप्रियाय च ।। २४.
मन्यवे शीतशीलाय सुगीतिगायते नमः। कटककराय भीमाय चोग्ररूपधराय च ।। २४.
विभीषणाय भीमाय भगप्रमथनाय च। सिद्धसङ्घातगीताय महाभागाय वै नमः ।। २४.
नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च। नदते कूर्दते चैव नमः प्रमुदिताय च ।। २४.
नमोऽद्भुताय स्वपते धावते प्रस्थिताय च। ध्यायते जृम्भते चैव तुदते द्रवते नमः ।। २४.
चलते क्रीडते चैव लम्बोदरशरीरिणे। नमः कृताय कम्पाय मुण्डाय विकराय च ।। २४.
नम उन्मत्तवेषाय किङ्किणीकाय वै नमः। नमो विकृतवेषाय क्रूरोग्रामर्षणाय च ।। २४.
अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च। नमः प्रियाय वादाय मुद्रामणिधराय च ।। २४.
नमस्तोकाय तनवे गुणैरप्रतिमाय च। नमो गणाय गुह्याय अगम्यागमनाय च ।। २४.
लोक धात्री त्वियं भूमिः पादौ सज्जनसेवितौ। सर्व्वेषां सिद्धयोगानामधिष्ठानन्तवोदरम् ।। २४.
मध्येऽन्तरिक्षं विस्तीर्णन्तारागणविभूषितम्। तारापथ इवा भाति श्रीमान् हारस्तवोरसि ।। २४.
दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः। विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ।। २४.
कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः । दंष्ट्राकरालदुर्द्धर्षमनौपम्यं मुखं तव ।। २४.
पझमालाकृतोष्णीषं शीर्षण्यं शोभते कथम्। दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्ये भूर्ह्यनिलो बले ।। २४.