नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च। वेदकर्म्मावदानानां द्रव्याणां प्रभवे नमः ।। २४.
नमो योग्स्य प्रभवे सांख्यस्य प्रभवे नमः । नमो ध्रुवनिशीथानामृषीणां पतये नमः ।। २४.
विद्युदशनिमेघानां गर्ज्जितप्रभवे नमः। उदधीनाञ्च प्रभवे द्वीपानां प्रभवे नमः ।। २४.
अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः। नमो नदानां प्रभवे नदीनां प्रभवे नमः ।। २४.
नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः। धर्म्माध्यक्षाय धर्म्माय स्थितीनां प्रभवे नमः ।। २४.
नमो रसानां प्रभवे रत्नानां प्रभवे नमः । नमः क्षणानां प्रभवे कलानां प्रभवे नमः ।। २४.
निमेषप्रभवे चैव काष्ठानां प्रभवे नमः । अहोरात्रार्द्धमासानां मासानां प्रभवे नमः ।। २४.
नम ऋतुनां प्रभवे संख्यायाः प्रभवे नमः। प्रभवे च परार्द्धस्य परस्य प्रभवे नमः ।। २४.
नमः पुराणप्रभवे युगस्य प्रभवे नमः। चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ।। २४.
कल्पोदये निबद्धानां वार्त्तानां प्रभवे नमः। नमो विश्वस्य प्रभवे ब्रह्मदिप्रभवे नमः ।। २४.
विद्यानां प्रभवे चैव विद्यानां पतये नमः। नमो व्रतानां पतये मन्त्राणां पतये नमः ।। २४.
पितॄणां पतये चैव पशूनां पतये नमः। वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ।। २४.
सुचारुचारुकेशाय ऊर्द्ध्वचक्षुःशिराय च। नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ।। २४.
प्रजापतीनां पतये सिद्धानां पतये नमः। गरुडोरगसर्पाणां पक्षिणां पतये नमः ।। २४.
गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः। वाराहायाप्रमेयाय रक्षोधिपतये नमः ।। २४.
नमो ह्यप्सरसांपतये गणानां (पतये) ह्रीमये नमः। अम्भसां पतये चैव तेजसां पतये नमः ।। २४.
नमोऽस्तु लक्ष्मीपतये श्रीमते ह्रीमते नमः। बलाबलसमूहाय ह्यक्षोभ्यक्षोभणाय च ।। २४.
दीर्घश्रृङ्गैकश्रृङ्गाय वृषभाय ककुद्मिने। नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ।। २४.
भूताय च भविष्याय वर्त्तमानाय वै नमः। सुवर्च्चसेऽथ वीराय शूराय ह्यतिगाय च ।। २४.
वरदाय वरेण्याय नमः सर्वगताय च। नमो भूताय भव्याय भवाय महते तथा ।। २४.
जनाय च नमस्तुभ्यं तपसे वरदाय च। नमो वन्द्याय मोक्षाय जनाय नरकाय च ।। २४.
भवाय भजमानाय इष्टाय याजकाय च। अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ।। २४.
नमः पाशाय हस्ताय नमः स्वाभरणाय च। हुताय चापहुताय प्रहुतप्रशिताय च ।। २४.
नमोऽस्त्विष्टाय मूर्त्ताय ह्यग्निष्टोमर्त्विजाय च। नम ऋताय सत्याय भूताधिपतये नमः ।। २४.
सदस्याय नमश्चैव दक्षिणावभृथाय च। अहिंसायाथ लोकानां पशुमन्त्रौषधाय च ।। २४.
नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धिने। नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ।। २४.
विश्वाय विश्वरूपाय विश्वतोऽक्षिमुखाय च। सर्वतः पाणिपादाय रुद्रायाप्रमिताय च ।। २४.
नमो हव्याय कव्याय हव्यकव्याय वै नमः। नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ।। २४.
सुवीराय सुघोराय ह्यक्षोभ्यक्षोभणाय च। सुमेधसे सुप्रजाय दीप्ताय भास्कराय च ।। २४.
मनो नमः सुपर्णाय तपनीयनिभाय च। विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ।। २४.