शतानि दशवर्षाणामण्डञ्चाप्सु प्रतिष्ठितम्। अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ।। २४.
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः। उल्वन्तस्य महोत्सेधं योऽसौ कनकपर्वतः ।। २४.
ततस्तस्मात् प्रबुद्धात्मा देवो देववरः प्रभुः । हिरण्यगर्भो भगवानहं जज्ञे चतुर्भुजः ।। २४.
ततो वर्षसहस्रान्ते वायुना तद्द्विधाकृतम्। अतारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च। कोऽयमत्रे त्यभिध्याते कुमारास्तेऽभवंस्तदा ।। २४.
प्रियदर्शनास्सुतनवो येऽतीताः पूर्वजास्तव। भूयो वर्षसहस्रान्ते तत एवात्मजास्तव। भुवनानलसङ्काशाः पझपत्रायतेक्षणाः ।। २४.
श्रीमान् सनत्कुमारस्तु ऋभुश्चैवोर्द्ध्वरेतसौ । सनातनश्च सनकस्तथैव च सनन्दनः। उत्पन्नाः समकालं ते बुद्धयाऽतीन्द्रियदर्शनाः ।। २४.
उत्पन्नाः प्रतिघात्मानो जगदुश्च तदैव हि। नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः ।। २४.
अस्य सौम्यं बहुक्लेशं जराशोकसमन्वितम्। जीवितं मरणं चैव संभवञ्च पुनः पुनः ।। २४.
स्वप्रभूतं पुनः स्वर्गे दुःखानि नरकांस्तथा। विदित्वा चागमं सर्वमवश्यं भवितव्यताम् ।। २४.
ऋभुं सनत्कुमारञ्च दृष्ट्वा तव वशे स्थितौ। त्रयस्तु त्रीन् गुणान् हित्वा आत्मजाः सनकादयः। वैवर्त्तेन तु ज्ञानेन निवृत्तास्ते महौजसः ।। २४.
ततस्तेष्वपवृत्तेषु सनकादिषु वै त्रिषु। भविष्यसि विमूढस्तु मायया शङ्करस्य तु ।। २४.
एवं कल्पे तु वैकल्पे संज्ञा नस्यति तेऽनघ। कल्पशेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ।। २४.
सा चैषा ह्यैश्वरी माया जगतः समुदाहृता। स एष पर्वतो मेरु र्देवलोक उदाहृतः ।। २४.
तवैवेदं हि माहात्म्यं दृष्ट्वा चात्मानमात्मना । ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ।। २४.
महादेवं महायोगं भूतानां वरदं प्रभुम्। प्रणवात्मानमासाद्य नमस्कृत्या जगद्गुरुम्। त्वाञ्च माञ्चैव संक्रुद्धो निःश्वासान्निर्द्दहेदयम् ।। २४.
एवं ज्ञात्वा महायोगं अभ्युत्तिष्ठन् महाबलः। अहं त्वामग्रतः कृत्वा स्तोष्येऽहमनलप्रभम् ।। २४.
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः। अतीतैश्च भविष्यैश्च वर्त्तमानैस्तथैव च। नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत् ।। २४.
नमस्तुभ्यं भगवते सुव्रतेऽनन्ततेजसे। नमः क्षेत्राधिपतये बीजिने शूलिने नमः ।। २४.
अमेढ्रायोर्द्ध्वमेढ्राय नमो वैकुण्ठरेतसे । नमो ज्येष्ठाय श्रेष्ठाय अपूर्वप्रथमाय च ।। २४.
नमो हव्याय पूज्याय सद्यो जाताय वै नमः । गह्वराय धनेशाय हैमचीराम्बराय च ।। २४.
नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च। वेदकर्म्मावदानानां द्रव्याणां प्रभवे नमः ।। २४.
नमो योग्स्य प्रभवे सांख्यस्य प्रभवे नमः । नमो ध्रुवनिशीथानामृषीणां पतये नमः ।। २४.
विद्युदशनिमेघानां गर्ज्जितप्रभवे नमः। उदधीनाञ्च प्रभवे द्वीपानां प्रभवे नमः ।। २४.
अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः। नमो नदानां प्रभवे नदीनां प्रभवे नमः ।। २४.
नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः। धर्म्माध्यक्षाय धर्म्माय स्थितीनां प्रभवे नमः ।। २४.
नमो रसानां प्रभवे रत्नानां प्रभवे नमः । नमः क्षणानां प्रभवे कलानां प्रभवे नमः ।। २४.
निमेषप्रभवे चैव काष्ठानां प्रभवे नमः । अहोरात्रार्द्धमासानां मासानां प्रभवे नमः ।। २४.
नम ऋतुनां प्रभवे संख्यायाः प्रभवे नमः। प्रभवे च परार्द्धस्य परस्य प्रभवे नमः ।। २४.
नमः पुराणप्रभवे युगस्य प्रभवे नमः। चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ।। २४.
कल्पोदये निबद्धानां वार्त्तानां प्रभवे नमः। नमो विश्वस्य प्रभवे ब्रह्मदिप्रभवे नमः ।। २४.