योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया। यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो। तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ।। २४.
ततो वर्षसहस्रान्ते उपावृत्तस्य मेऽनघ। नूनं मत्सरभावेन मां वशीकर्तुमिच्छता। आशु द्वाराणि सर्वाणि घटितानि त्वया पुनः ।। २४.
ततो मया महाभाग सञ्चिन्त्य स्वेन चेतसा। लब्धो नाभ्यां प्रवेशतु पद्मसूत्राद्विनिर्गमः ।। २४.
माभूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथञ्चन। इत्येषानुगतिर्विष्णोः कार्याणामौपसर्गिकी ।। २४.
यन्म यानन्तरं कार्यं मयाध्यवसितं त्वयि। त्वाञ्चाबाधितुकामेन क्रीडापूर्वं यदृच्छया। आशु द्वाराणि सर्वाणि घटितानि मया पुनः ।। २४.
न तेऽन्यथावमन्तव्यो मान्यः पूज्यश्च मे भवान्। सर्वं मर्षय कल्याण यन्मयाऽपकृतन्तव। तस्मान्मयोच्यमानस्त्वं पझादवतर प्रभो ।। २४.
नाहं भवन्तं शक्नोमि सोदुन्तेजोमयं गुरुम्। स चोवाच वरं ब्रूहि पझादवतराम्ययम् ।। २४.
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनम्। सत्यधनो महायोगी त्वमीड्यः प्रणवात्मकः ।। २४.
अद्यप्रभृति सर्वेश श्वेतोष्णीषविभूषणः। पझयोनिरितीत्येवं ख्यातो नाम्ना भविष्यसि। पुत्रो मे त्वं भव ब्रह्मन् सर्वलोकाधिप प्रभो ।। २४.
ततः स भगवान् ब्रह्म वरं गृह्य किरीटिनः । एवं भवतु चेत्युक्त्वां प्रीतात्मा गतमत्सरः ।। २४.
प्रत्यासन्नमथायातं बालार्काभं महाननम्। भूतमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ।। २४.
अप्रमेयो महावक्रो दंष्ट्री व्यस्तशिरो रुहः। दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतोमुखः ।। २४.
लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली । मेढ्रेणोर्ध्वेन महता नदमानोऽतिभैरवम् ।। २४.
कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः। व्याप्य सर्वा दिशो द्याञ्च इत एवाभिवर्त्तते ।। २४.
तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत्। पद्भ्यान्तलनिपातेन यस्य विक्रमतोऽर्णवे। वेगेन महताकाशे व्यथिताश्च जलाशयाः ।। २४.
छटाभिर्विष्णुतोऽत्यर्थं सिच्यते पझसम्भवः। घ्राणजेन च वातेन कम्पमानं त्वया सह। दोधूयते महापझं स्वच्छन्दं मम नाभिजम् ।। २४.
स एष भगवानीशो ह्यनादिश्चान्तकृद्विभुः। भवानहञ्च स्तोत्रेण ह्युपतिष्ठाव गोध्वजम् ।। २४.
ततः क्रुद्धोऽम्बुजाभास्कं ब्रह्मा प्रोवाच केशवम्। न भवान् न्यूनमात्मानं लोकानां योनिमुत्तमम् ।। २४.
ब्रह्माणं लोककर्त्तारं माञ्च वेत्ति सनातनम्। कोऽयं भोः शङ्करो नाम ह्यावयोर्व्यतिरिच्यते ।। २४.
तस्य तत् क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत। मा मैवं वद कल्याण परिवादं महात्मनः ।। २४.
मायायोगेश्वरो धर्मो दुराधर्षो वरप्रदः। हेतुरस्यात्र जगतः पुराणः पुरुषोऽव्ययः ।। २४.
जीवः खल्वेष जीवानां ज्योतिरेकं प्रकाशते। बालक्रीडनकैर्द्देवः क्रीडतो शङ्करः स्वयम् ।। २४.
प्रधानमव्ययं ज्योतिरव्यक्तं प्रकृतिस्तमः। अस्य चैतानि नामानि नित्यं प्रसवधर्मिणः। यः कः स इति दुःखार्त्तैर्मृग्यते यतिभिः शिवः ।। २४.
एष बीजी भवान् बीजमहं योनिः सनातनः। एवमुक्रोऽथ विश्वात्मा ब्रह्मा विष्णुमभाषत ।। २४.
भवान्योनिरहं बीजं कथं बीजी महेश्वरः । एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ।। २४.
ज्ञात्वा चैवं समुत्पत्तिं ब्रह्मणा लोकतन्त्रिणा। इदं परमसादृश्यं प्रश्रमभ्यवदद्धरिः ।। २४.
अस्मान्महत्तरं गुह्यं भूतमव्यन्न विद्यते। महतः परमं धाम शिवमध्यात्मिनां पदम् ।। २४.
द्वैधीभावेन चात्मानं प्रविष्टस्तु व्यवस्थितः। निष्कलः सूक्ष्ममव्यक्तः सकलश्च महेश्वरः ।। २४.
अस्य मायाविधिज्ञस्य अगम्यगहनस्य च। पुरा लिङ्गं भवद्बीजं प्रथमं त्वादिसर्गिकम् ।। २४.
मयि योनौ समायुक्तं तद्बीजं कालपर्ययात्। हिरण्मयमपारन्तद्योन्यामण्डमजायत ।। २४.