सत्यसन्धाः पराक्रान्ताः क्रूरा मायाविनश्च ते । महाबला अयज्वानो ह्यब्रह्मण्याश्च दानवाः । कीर्त्त्यमानान्मया सर्वान् प्राधान्येन निबोधत ।। ७.
द्विमूर्द्धा शङ्कुवर्णश्च तथा शङ्कुनिरामयः। शङ्कुकर्णो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ।। ७.
अजामुखोऽथ भगवान् शिलो वामनसस्तथा। मरीचिरक्षकश्चैव महागार्ग्योऽङ्गिरावृतः ।। ७.
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा। इन्द्रजिद्विश्वजिच्चैव तथासुर विमर्द्दनः ।। ७.
एकचक्रः सुबाहुश्च तारकश्च महाबलः। वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ।। ७.
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः। धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापिनः ।। ७.
सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः। असिलोमा सुकेशश्च सदश्च बलको दश ।। ७.
तथा गगनमूर्द्धा च कुम्भनाभा महोदरः। प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ।। ७.
असुरश्च विरुपाक्षः सुपथोऽथ महासुरः। अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ।। ७.
शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ। असुराणां सुरावेतौ सुराणां साम्प्रताविमौ ।। ७.
इति पुत्रा दनोर्वंशाः प्रधानाः परिकीर्तिताः। तेषामपरिसङ्ख्येयं पुत्रपौत्राद्यनन्तकम् ।। ७.
इत्येते त्वसुराः प्रोक्ता दैतेया दानवाश्च ये। स्वर्भानुस्तु स्मृतो दैत्यो ह्यनुभानुर्दनोः सुतः। इमे तु वंशानुगता दनोः पुत्रास्तु ये स्मृताः ।। ७.
एकाक्ष ऋषभोऽरिष्टः प्रबन्धनरकावपि। इन्द्रबाधनकेशी च मेरुः शम्बोऽथ धेनुकः ।। ७.
गवेष्ठिश्च गवाक्षश्च तालकेतुश्च वीर्यवान्। एते मनुष्यधर्मास्तु दनोः पुत्रा मया स्मृताः ।। ७.
दैत्यदानवसंहर्षे जाता भीमपराक्रमाः। सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ।। ७.
सैंहिकेया इति ख्याताश्चतुर्द्दश महासुराः। शतगालश्च बलवान्न्यासः शाम्बस्तथैव च । ७.
अनुलोमः शुचिश्चैव वातापिश्च सितांशुकः। हरः कल्पः कालनाभो भौमश्च नरकस्तथा ।। ७.
राहुर्ज्यष्ठस्तु तेषां वै चन्द्रसूर्यप्रमर्दनः। इत्येते सिंहिकापुत्रा देवैरपि दुरासदाः ।। ७.
दारुणाभिजनाः क्रूराः सर्वे ब्रह्मद्विषश्च ते। दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ।। ७.
निहतो जामदग्न्येन भार्गवेण बलीयसा। स्वर्भानोस्तु प्रभा कन्या पुलोम्नोऽथ शची तथा ।। ७.
उपदानवी यमस्यापि शर्मिष्ठा वार्ष पर्वणी। पुलोमा कालिका चैव वैश्वानरसुते उभे ।। ७.
प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः। पुरुंजज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ।। ७.
वैश्वानरसुते ह्येते पुलोमा कालिका उभे । उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे । ७.
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः। चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ।। ७.
पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः। अवध्या दानवानां ते निहताः सव्यसाचिना ।। ७.
मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः। मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ।। ७.
बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा। दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः ।। ७.
दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः। अरूरुर्बालिजम्भौ च विरक्षश्च विषस्तथा ।। ७.
अरुरो स्तनयः क्रूरो धुन्धुर्नाम महासुरः। निहतः कुवलाश्वेन उत्तङ्कवचनात् किल ।। ७.
बलेः पुत्रौ महावीर्यौ तेजसाप्रतिमावुभौ। कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ।। ७.