शतयोजनविस्तीर्णं तरुणादित्यवर्च्चसम्। बज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ।। २४.
तस्यैवं क्रीडमानस्य समीपं देवमीढुषः। हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णोह्यतीन्द्रियः। चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ।। २४.
श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना। तं क्रीडमानं पझेन दृष्ट्वा ब्रह्मा तु भेजिवान् ।। २४.
स विस्मयमथागम्य शस्य संपूर्णया गिरा। प्रोवाच को भवान् शेते आक्षितो म्ध्यमम्भसाम् ।। २४.
अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः। उदतिष्ठत पर्य्यङ्काद्विस्मयोत्फुल्ललोचनः ।। २४.
प्रत्युवाचोत्तरं चैव क्रियते यच्च किञ्चन। द्यौरन्तरिक्षं भूतञ्च परं पदमहं प्रभुः ।। २४.
तमेवमुक्त्वा भगवान् विष्णुः पुनरथाव्रवीत् । कस्त्वं खलु समायातः समीपं भगवान् कुतः । कुतस्व भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ।। २४.
को भवान् विश्वमूर्तिस्त्वं कर्त्तव्यं किञ्च ते मया। एवं ब्रुवाण वैकुण्ठं प्रत्युवाच पितामहः ।। २४.
यथा भवांस्तथा चाहमादिकर्त्त प्रजापतिः। नारायणसमाख्यातः सर्व्वं वै मयि तिष्ठति ।। २४.
सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा। सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसम्भवः ।। २४.
कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम्। इमानष्टादशद्वीपान् ससमुद्रान् सपर्व्वतान्। प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान्। ब्रह्मादिस्तम्बपर्य्यन्तान् सप्तलोकान् सनातनान् ।। २४.
ब्रह्मणस्तूदरे दृष्ट्वा सर्व्वान् विष्णुर्महायशाः। अहोऽस्य तपसो वीर्य्यं पुनः पुनरभाषत ।। २४.
पर्य्यटन् विविधान् लोकान् विष्णुर्नानाविधाश्रमान्। ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ।। २४.
तदाऽस्य वक्रान्निष्क्रम्य पन्नगेन्द्रारिकेतनः। अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ।। २४.
भगवन् आदि मध्यञ्च अन्तं कालदिशोर्न च। नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ।। २४.
एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः। भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम्। प्रविश्य लोकान् पश्यैताननौपम्यान् द्विजोत्तम ।। २४.
मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च। श्रीपतेरुदरं भूयः प्रविवेश पितामहः ।। २४.
तानेव लोकान् गर्भस्थः पश्यन् सोऽचिन्त्यविक्रमः। पर्यटित्वादिदेवस्य ददर्शान्तं न वै हरेः ।। २४.
ज्ञात्वागमन्तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः। विभुर्मनः कर्त्तुमियेष चाशु सुखं प्रसुप्तोऽस्मि महाजलौघे ।। २४.
ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्यते। सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत ।। २४.
पझसूत्रानुमार्गेण ह्यनुगम्य पितामहः। उज्जहारात्मनो रूपं पुष्कराच्चतुराननः। विरराजारविन्दस्थः पझगर्भसमद्युतिः ।। २४.
एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः। प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु ।। २४.
ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः। शूलपाणिर्महादेवो हैमचीराम्बरच्छदः। आगच्छद् यत्र सोऽनन्तो नागभोगपतिर्हरिः ।। २४.
शीघ्रं विक्रमतस्तस्य पद्भ्यामत्यन्तपीडिताः। उद्धूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः। अत्युष्णाश्चातिशीताश्च वायुस्तत्र ववौ भृशम् ।। २४.
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत। अब्बिन्दवो हि स्थूलोष्णाः कम्पते चाम्बुजं भृशम्। एतं मे संशयं ब्रूहि किञ्चान्यत् त्वञ्चिकीर्षसि ।। २४.
एतदेवंविधं वाक्यं पितामहमुखोद्भवम्। श्रुत्वाप्रतिमकर्माह भगवानसुरान्तकृत् ।। २४.
किन्नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् । वदन्ति प्रियमत्यर्थं विप्रियेपि च ते मया ।। २४.
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्। किन्न्वत्र भगवांस्तस्मिन् पुष्करे जातसम्भ्रमः ।। २४.
किं मया यत् कृतं देव यन्मां प्रियमनुत्तमम्। भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ।। २४.
एवं ब्रुवाणं देवेशं लोकया त्रान्तु तत्त्वगाम्। प्रत्युवाचाम्बुजाभास्को ब्रह्म वेदनिधिः प्रभुः ।। २४.