पञ्चविंशे पुनः प्राप्ते परिवर्त्ते यथाक्रमम्। वसिष्ठस्तु यदा व्यासः शक्तिर्नाम भविष्यति ।। २३.
तदाऽप्यहं भविष्यामि दण्डी मुण्डीशरः प्रभुः। कोटिवर्षं समासाद्य नगरं देवपूजितम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागताः। योगात्मानो महात्मानः सर्वे ते ह्यूर्द्ध्वरेतसः ।। २३.
छगलः कुम्भकर्षाश्यः कुम्भश्चैव प्रबाहुकः। प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ।। २३.
षड्विंशे परिवर्त्ते तु यदा व्यासः पराशरः। तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः। पुण्यं रुद्रवनं प्राप्य कलौ तस्मिन् युगान्तिके ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः। उलूको वैद्युतश्चैव सर्वको ह्याश्वलायनः। प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ।। २३.
सप्तविंशतिमे प्राप्ते परिवर्त्ते क्रमागते। जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ।। २३.
तदाऽप्यहं भविष्यामि सोमशर्म्मा द्विजोत्तमः। प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः। अक्षपादः कणादश्च उलूको वत्स एव च ।। २३.
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः। प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ।। २३.
अष्टाविंशे पुनः प्राप्ते परिवर्त्ते क्रमागते। पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः ।। २३.
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः। तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः। वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ।। २३.
तदा चाहं भविष्यामि योगात्मा योगमायया। लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ।। २३.
श्मशावे मृतमुत्सृष्टं दृष्ट्वा लोकमनाथकम्। ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ।। २३.
दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धञ्च विष्णुना। भविष्यामि तदा ब्रह्मन् नकुली नाम नामतः ।। २३.
कायारोहणमित्येवं सिद्धक्षेत्रञ्च वैतदा। भविष्यति तु विख्यातं यावद्भूमिर्द्धरिष्यति ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । कुशइकश्चैव गार्ग्यश्च मित्रको रुष्ट एव च ।। २३.
योगयुक्ता महात्मानो ब्राह्मणा वेदपारगाः। प्राप्य माहेश्वरं योगं विमला ह्यूर्द्ध्वरेतसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम्। मन्वादिकृष्णपर्यन्तमष्टाविंशयुगक्रमात्। तत्र स्मृतिसमूहानां विभागो धर्मलक्षणम् ।। २३.
चत्वारि भारते वर्षे युगानि मुनयो विदुः । कृतं त्रेता द्वापरं च तिष्यं चेति चतुर्युगम् ।। २४.
एतत्सहस्रपर्यन्तमहर्यद्ब्रह्मणः स्मृतम्। यामाद्यास्तु गणाः सप्त रोमवन्तश्चतुर्द्दश ।। २४.
सशरीराः श्रयन्ते स्म जनलोकं सहानुगाः। एवं देवेष्वतीतेषु महर्ल्लोकाज्जनं तपः ।। २४.
मन्वन्तरेष्वतीतेषु देवाः सर्वे महौजसः। ततस्तेषु गतेषूर्द्ध्वं सायुज्यं कल्पवासिनाम् ।। २४.
समेत्य देवैस्ते देवाः प्राप्ते सङ्कालने तदा। महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश ।। २४.
भूतदिष्ववशिष्टेषु स्थावरान्तेषु वै तदा । शून्येषु तेषु लोकेषु महान्तेषु भुवादिषु। देवेष्वथ गतेषूर्द्ध्वं कल्पवासिषु वै जनम् ।। २४.
तत्संहत्या ततो ब्रह्मा देवर्षिगणदानवान्। संस्थापयति वै सर्व्वान् दाहवृष्ट्या युगक्षये ।। २४.
योऽतीतः सप्तमः कल्पो मया वः परिकीर्तितः। समुद्रैः सप्तभिर्गाढमेकीभूतैर्महार्णवैः । आसीदेकार्णवं घोरमविभागं तमोमयम् ।। २४.८ माययैकार्णवे तस्मिन् शङ्खचक्रगदाधरः। जीमूताभोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ।। २४.
नारायणमुखोद्गीर्णः सोऽष्टमः पुरुषोत्तमः। अष्टबाहुर्महोरस्को लोकानां योनिरुच्यते। किमप्यचिन्त्यं युक्तात्मा योगमास्थाय योगवित् ।। २४.
फणासहस्रकलितं तमप्रतिमवर्चसम्। महाभोगपतेर्भोगमन्वास्तीर्य महोच्छ्रयम्। तस्मिन्महति पर्यङ्के शेते वै कनकप्रभे ।। २४.
एवं तत्र शयानेन विष्णुना प्रभविष्णुना। आत्मारामेण क्रीडार्थं सृष्टं नाभ्यां तु पङ्कजम् ।। २४.