तत्राप्यहं भविष्यामि जटामालीति नामतः। हिमवच्छिखरे रम्येजटायुर्यत्र पर्वतः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ।। २३.
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्द्ध्वरेतसः। प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ।। २३.
ततो विंशतिमे सर्गे परिवर्त्ते क्रमेण तु। वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ।। २३.
तदाप्यहं भविष्यामि ह्यट्टहासीति नामतः। अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ।। २३.
तत्रैव हिमवत्पृष्ठे सिद्धचारणसेविते। तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। युक्तात्मानो महासत्त्वा ध्यानिनो नियतव्रताः ।। २३.
सुमन्तुर्वर्वरिर्विद्वान् सुबन्धुः कुशिकन्धरः। प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ।। २३.
एकविशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु। वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ।। २३.
तदाऽप्यहं भविष्यामि दारुको नाम नामतः। तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। प्लक्षो दाक्षायणिश्चैव केतुमाली बकस्तथा ।। २३.
योगात्मानो महात्मानो नियता ह्यूर्द्ध्वरेतसः। परमं योगमाक्थाय रुद्रं प्राप्तास्तथानघाः ।। २३.
द्वाविंशे परिवर्त्ते तु व्यासः शुक्लायनो यदा। तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः ।। २३.
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः। द्रक्ष्यन्ति मां कलौ तस्मिन्नवतीर्णं हलायुधम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः। तुल्यार्चिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ।। २३.
तेऽपि माहेश्वरं योगं प्राप्य ध्यानपरायणाः। विरजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ।। २३.
परिवर्त्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः। व्यासो भविष्यति ब्रह्म तदाऽहं भविता पुनः। श्वेतो नाम महाकायो मुनिपुत्रः सुधार्मिकः ।। २३.
तत्र कालञ्जरिष्यामि तदा गिरिवरोत्तमे। तेन कालञ्जरो नाम भविष्यति स पर्वतः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। उषिजो बृहदुक्थश्च देवलः कविरेव च। प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ।। २३.
परिवर्त्ते चतुर्विंशे ऋक्षो व्यासो भविष्यति। तत्राऽहं भविता ब्रह्मन् कलौ तस्मिन् युगान्तिके। शूली नाम महायोगी नैमिषे योगि वन्दिते ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः। शलिहोत्रोऽग्निवेश्यश्च युवनाश्चः शरद्वसुः । तेऽपि योगबलोपेता रुद्रं यास्यन्ति सुव्रताः ।। २३.
पञ्चविंशे पुनः प्राप्ते परिवर्त्ते यथाक्रमम्। वसिष्ठस्तु यदा व्यासः शक्तिर्नाम भविष्यति ।। २३.
तदाऽप्यहं भविष्यामि दण्डी मुण्डीशरः प्रभुः। कोटिवर्षं समासाद्य नगरं देवपूजितम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागताः। योगात्मानो महात्मानः सर्वे ते ह्यूर्द्ध्वरेतसः ।। २३.
छगलः कुम्भकर्षाश्यः कुम्भश्चैव प्रबाहुकः। प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ।। २३.
षड्विंशे परिवर्त्ते तु यदा व्यासः पराशरः। तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः। पुण्यं रुद्रवनं प्राप्य कलौ तस्मिन् युगान्तिके ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः। उलूको वैद्युतश्चैव सर्वको ह्याश्वलायनः। प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ।। २३.
सप्तविंशतिमे प्राप्ते परिवर्त्ते क्रमागते। जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ।। २३.
तदाऽप्यहं भविष्यामि सोमशर्म्मा द्विजोत्तमः। प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः। अक्षपादः कणादश्च उलूको वत्स एव च ।। २३.
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः। प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ।। २३.