तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः। तत्र वेदशिरा नाम अस्त्रं तत्पारमेश्वरम् ।। २३.
भविष्यति महावीर्यं वेदशीर्षा च पर्वतः। हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ।। २३.
तदापि मम ते पुत्रा भविष्यन्ति तपोधनाः। कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।। २३.
योगात्मानो महात्मानो ब्रह्मिष्ठाश्चोर्द्ध्वरेतसः। तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ।। २३.
ततः षोडशमे चापि परिवर्त्ते क्रमागते। व्यासस्तु सञ्जयो नाम भविष्यति तदा प्रभुः ।। २३.
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः। तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। कश्यपो ह्युशनाश्चैव च्यवनोऽथ बृहस्पतिः। तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ।। २३.
ततः सप्तदशे चैव परिवर्त्ते क्रमागते। तदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ।। २३.
तदाप्यहं भविष्यामि गुहावासीति नामतः। हिमवच्छिखरे चैव महातुङ्गे महालये। सिद्धिक्षेत्रं महापुण्यं भविष्यति महालयम् ।। २३.
तत्रापि मम ते पुत्रा ब्रह्मण्या योगवेदिनः । भविष्यन्ति महात्मानः सर्वज्ञा निरहङ्कृताः ।। २३.
उतथ्यो वामदेवश्च महाकालो महालयः। तेषां शतसहस्रन्तु शिष्याणां ध्यानसाधनम् ।। २३.
भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः। ते तु सन्निहिता योगे हृदि कृत्वा महेश्वरम् । महालये पदं क्षिप्त्वा प्रविष्टाः शिवमव्ययम् ।। २३.
ये चान्येऽपि महात्मानः काले तस्मिन् युगान्तिके। ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः ।। २३.
गत्वा महाल्यं पुण्यं दृष्ट्वा माहेश्वरं पदम् । तूर्णं तारयते जन्तून् दशपूर्वान् दशापरान् ।। २३.
आत्मानमेकविशंञ्च तारयित्वा महार्णवम्। मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ।। २३.
ततोऽष्टादशमे चैव परिवर्त्ते यदा भवेत् । तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः। तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः ।। २३.
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते। हिमवाच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः। शिखण्डिनो वनञ्चापि ऋषिसिद्धनिषेवितम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः। वाचःशवा ऋतीकश्च शावासश्च दृढव्रतः ।। २३.
योगात्मानो महाशक्ताः सर्वे ते वेदपारगाः। प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते ।। २३.
ततस्त्वेकोनविंशे तु परिवर्त्ते क्रमागते। व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ।। २३.
तत्राप्यहं भविष्यामि जटामालीति नामतः। हिमवच्छिखरे रम्येजटायुर्यत्र पर्वतः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ।। २३.
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्द्ध्वरेतसः। प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ।। २३.
ततो विंशतिमे सर्गे परिवर्त्ते क्रमेण तु। वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ।। २३.
तदाप्यहं भविष्यामि ह्यट्टहासीति नामतः। अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ।। २३.
तत्रैव हिमवत्पृष्ठे सिद्धचारणसेविते। तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। युक्तात्मानो महासत्त्वा ध्यानिनो नियतव्रताः ।। २३.
सुमन्तुर्वर्वरिर्विद्वान् सुबन्धुः कुशिकन्धरः। प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ।। २३.
एकविशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु। वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ।। २३.
तदाऽप्यहं भविष्यामि दारुको नाम नामतः। तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। प्लक्षो दाक्षायणिश्चैव केतुमाली बकस्तथा ।। २३.