दशमे द्वापरे व्यासस्त्रिधामानाम नामतः। यदा भविष्यति विप्रास्तदाऽहं भविता पुनः ।। २३.
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे। नाम्ना भृगोस्तु शिखरन्तस्मात्तच्छिखरम्भृगुः ।। २३.
तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः। बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः ।। २३.
योगात्मानो महात्मानो ध्यानयोगसमन्विताः। रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ।। २३.
एकादशे द्वापरे तु त्रिवृद्व्यासो भविष्यति। तदाऽप्यहं भविष्यामि गङ्गाद्वारे कलेर्धुरि ।। २३.
उग्रा नाम महानादास्तत्रैव मम पुत्रकाः। भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ।। २३.
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः। प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः। तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ।। २३.
द्वादशे पिरवर्त्ते तु शततेजा महामुनिः। भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ।। २३.
ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके। हैमकं वनमासाद्य योगमास्थाय भूतले ।। २३.
अत्रापि मा ते पुत्रा भस्मस्नानानुलेपनाः। भविष्यन्ति महायोग रुद्रलोकपरायणाः ।। २३.
सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च। रुद्रलोकं गमिष्यन्ति ध्यानयोगपरायणाः ।। २३.
त्रयोदशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु। धर्मो नरायणो नाम व्यासस्तु भविता यदा ।। २३.
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः। वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः। सुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ।। २३.
महायोगबलोपेता विमला ऊर्द्ध्वरेतसः। तेनैव योगमार्गेण गमिष्यन्ति न संशयः ।। २३.
सुरक्षणो यदा व्यासः पर्याये तु चतुर्द्दशे। तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ।। २३.
वंशे त्वङ्गिरसः श्रेष्ठो गौतमो नाम योगवित्। तस्माद्भविष्यते पुण्यं गौतमं नाम तद्वनम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तथा। अत्रिरुग्रतपाश्चैव श्रावणोऽथ स्रविष्टकः ।। २३.
योगात्मानो महात्मानो ध्यानयोगपरायणाः। तेऽपि तेनैव मार्गेण रुद्रलोकनिवासिनः ।। २३.
ततः प्राप्ते पञ्चदशे परिवर्त्ते क्रमागते। आरुणिस्तु यदा व्यासो द्वापरे भविता प्रभुः ।। २३.
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः। तत्र वेदशिरा नाम अस्त्रं तत्पारमेश्वरम् ।। २३.
भविष्यति महावीर्यं वेदशीर्षा च पर्वतः। हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ।। २३.
तदापि मम ते पुत्रा भविष्यन्ति तपोधनाः। कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।। २३.
योगात्मानो महात्मानो ब्रह्मिष्ठाश्चोर्द्ध्वरेतसः। तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ।। २३.
ततः षोडशमे चापि परिवर्त्ते क्रमागते। व्यासस्तु सञ्जयो नाम भविष्यति तदा प्रभुः ।। २३.
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः। तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। कश्यपो ह्युशनाश्चैव च्यवनोऽथ बृहस्पतिः। तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ।। २३.
ततः सप्तदशे चैव परिवर्त्ते क्रमागते। तदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ।। २३.
तदाप्यहं भविष्यामि गुहावासीति नामतः। हिमवच्छिखरे चैव महातुङ्गे महालये। सिद्धिक्षेत्रं महापुण्यं भविष्यति महालयम् ।। २३.
तत्रापि मम ते पुत्रा ब्रह्मण्या योगवेदिनः । भविष्यन्ति महात्मानः सर्वज्ञा निरहङ्कृताः ।। २३.