तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः। विशोकश्च विकेशश्च विशापः शापनाशनः ।। २३.
तेऽपि तेनैव मार्गेण योगोक्तेन महौजसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः। तदाऽप्यहं भविष्यामि सुहोत्रो नाम नामतः ।। २३.
तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः। भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः ।। २३.
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः। प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः। तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा। तदा चापि भविष्यामि कङ्गो नाम महातपाः। अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् ।। २३.
चत्वारस्तु महाभागा विरजाः शुद्धयोनयः । पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः ।। २३.
सनः सनन्दनश्चैव प्रभुर्यश्च सनातनः। ऋतुः सनत्कुमारश्च निर्ममा निरहंकृताः। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
परिवृत्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः। तदाप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।। २३.
शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः। भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः ।। २३.
सुधामा विरजश्चैव शङ्खपाद्रव एव च। योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः। तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.
सप्तमे परिवर्त्ते तु यदा व्यासः शतक्रतुः। विभुर्नाम महातेजा- पूर्वमासीच्छतक्रतुः ।। २३.
तदाऽप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके। जैगीषव्येति विखयातः सर्वेषां योगिनां वरः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तदा। सारस्वतः सुमेधाश्च वसुवाहः सुवाहनः ।। २३.
तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः । भविष्यन्ति महात्मानो रुद्रलोकपरायणाः ।। २३.
वसिष्ठश्चाष्टमे व्यासः परिवर्त्ते भविष्यति। कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः। वाग्बलिश्च महायोगी सर्व एव महौजसः ।। २३.
प्राप्य माहेश्वरं योगं ध्यानिनो दग्धकल्मषाः। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
परिवर्त्तेऽथ नवमे व्यासः सारस्वतो यदा। तदा चाहं भविष्यामि ऋषभो नाम नामतः । तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ।। २३.
पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा। भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ।। २३.
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः। तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः। ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ।। २३.
दशमे द्वापरे व्यासस्त्रिधामानाम नामतः। यदा भविष्यति विप्रास्तदाऽहं भविता पुनः ।। २३.
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे। नाम्ना भृगोस्तु शिखरन्तस्मात्तच्छिखरम्भृगुः ।। २३.
तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः। बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः ।। २३.
योगात्मानो महात्मानो ध्यानयोगसमन्विताः। रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ।। २३.
एकादशे द्वापरे तु त्रिवृद्व्यासो भविष्यति। तदाऽप्यहं भविष्यामि गङ्गाद्वारे कलेर्धुरि ।। २३.
उग्रा नाम महानादास्तत्रैव मम पुत्रकाः। भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ।। २३.
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः। प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः। तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ।। २३.
द्वादशे पिरवर्त्ते तु शततेजा महामुनिः। भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ।। २३.
ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके। हैमकं वनमासाद्य योगमास्थाय भूतले ।। २३.
अत्रापि मा ते पुत्रा भस्मस्नानानुलेपनाः। भविष्यन्ति महायोग रुद्रलोकपरायणाः ।। २३.