ततस्तस्मिंस्तदा कल्पे वाराहे सप्तमे प्रभोः। पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः। मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति ।। २३.
तदा चतुर्युगावस्थे कल्पे तस्मिन् युगान्तके। भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ।। २३.
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे। चतुःशिष्याः शिवे युक्ता भविष्यन्ति तदा मम ।। २३.
श्वेतश्चैव शिखश्चैव श्वेताश्वः श्वेतलोहितः। चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ।। २३.
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
पुनस्तु मम देवेशो द्वितीयद्वापरे प्रभुः। प्रजापतिर्यदा व्यासः सत्यो नाम भविष्यति ।। २३.
तदा लोकहितार्थाय सुतारे नाम नामतः। भविष्यामि कलौ तस्मिन् लोकानुग्रहकारणात् ।। २३.
तत्रापि मम ते पुत्रा भविष्या नाम नामतः। दुन्दुभिः शतरूपश्च ऋचीकः क्रतुमांस्तथा ।। २३.
प्राप्य योगं तथा ज्ञानं ब्रह्म चैव सनातनम्। रुद्रलोकं गमिष्यन्ति पुनरावृत्ति दुर्लभम् ।। २३.
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः। तदा ह्यहं भविष्यामि दमनस्तु युगन्तिके ।। २३.
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः। विशोकश्च विकेशश्च विशापः शापनाशनः ।। २३.
तेऽपि तेनैव मार्गेण योगोक्तेन महौजसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः। तदाऽप्यहं भविष्यामि सुहोत्रो नाम नामतः ।। २३.
तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः। भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः ।। २३.
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः। प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः। तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा। तदा चापि भविष्यामि कङ्गो नाम महातपाः। अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् ।। २३.
चत्वारस्तु महाभागा विरजाः शुद्धयोनयः । पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः ।। २३.
सनः सनन्दनश्चैव प्रभुर्यश्च सनातनः। ऋतुः सनत्कुमारश्च निर्ममा निरहंकृताः। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
परिवृत्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः। तदाप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।। २३.
शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः। भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः ।। २३.
सुधामा विरजश्चैव शङ्खपाद्रव एव च। योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः। तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ।। २३.
सप्तमे परिवर्त्ते तु यदा व्यासः शतक्रतुः। विभुर्नाम महातेजा- पूर्वमासीच्छतक्रतुः ।। २३.
तदाऽप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके। जैगीषव्येति विखयातः सर्वेषां योगिनां वरः ।। २३.
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तदा। सारस्वतः सुमेधाश्च वसुवाहः सुवाहनः ।। २३.
तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः । भविष्यन्ति महात्मानो रुद्रलोकपरायणाः ।। २३.
वसिष्ठश्चाष्टमे व्यासः परिवर्त्ते भविष्यति। कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः। वाग्बलिश्च महायोगी सर्व एव महौजसः ।। २३.
प्राप्य माहेश्वरं योगं ध्यानिनो दग्धकल्मषाः। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
परिवर्त्तेऽथ नवमे व्यासः सारस्वतो यदा। तदा चाहं भविष्यामि ऋषभो नाम नामतः । तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ।। २३.
पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा। भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ।। २३.
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः। तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः। ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ।। २३.