भूतग्रामाश्च चत्वारः आश्रमाश्चतुरस्तथा। धर्मस्य पादाश्चत्वार श्चत्वारो मम पुत्रकाः ।। २३.
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्। चतुर्द्धाऽवस्थितं चैव चतुष्पादं भविष्यति ।। २३.
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा। जनस्तपश्च शांतश्च रुद्रलोकस्ततः परम् ।। २३.
स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः। तत्र लोकः परं स्थानं परन्तद्योगिनां स्मृतम् ।। २३.
निर्ममा निरहंकाराः कामक्रोधविवर्ज्जिताः। द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ।। २३.
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती। तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः। तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ।। २३.
सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः। जीवः प्राणभृतां ब्रह्मन् सर्वः पीत्वा स्तनैर्घृतम् ।। २३.
तस्मात् सोममयं चैतदमृतं चैव संज्ञितम्। चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ।। २३.
यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी। दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी। तस्माद्वै द्विपदाः सर्वे द्विस्तनाश्च नराः स्मृताः ।। २३.
यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी। दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा। तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति ।। २३.
अजश्चैव महातेजा विश्वरूपो भविष्यति। अमोघरेताः सर्वत्र मुखे चास्य हुताशनः। तस्मात् सर्वगतो मेध्यः पशुरूपी हुताशनः ।। २३.
तपसा भावितात्मानो ये वै द्रक्ष्यन्ति वै द्विजाः। ईशित्वे च शिवत्वे च सर्वगं सर्वतः स्थिरम् ।। २३.
रजस्तमोविनिर्मुक्तास्त्यक्त्वा मानुष्यकम्बुवि। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः। प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ।। २३.
भगवन्देवदेवेश विश्वरूपी महेश्वरः। इमास्तव महादेव तनवो लोकवन्दिताः ।। २३.
विश्वरूप महासत्त्व कस्मिन् काले महाभुज। कस्यां वा युगसम्भूत्यां द्रक्ष्यन्ति त्वां द्विजातयः ।। २३.
केन वा तत्त्वयोगेन ध्यानयोगेन केन वा । तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ।। २३.
तपसा नैव योगेन दानधर्मफलेन वा। न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ।। २३.
न वेदाध्यापनैर्वापि न चित्तेन विवेदनैः । शक्योऽहं मानुर्षैद्रष्टुमृते ध्यानात्परं न हि ।। २३.
साध्यो नारायणश्चैव विष्णुस्त्रिभुवनेश्वरः । भविष्यतीह नाम्ना तु वाराहो नाम विश्रुतः ।। २३.
चतुर्बाहुश्चतुष्पादश्चतुर्नेत्रश्चतुर्मुखः। तदा संवत्सरो भूत्वा यज्ञरूपी भविष्यति। षडङ्गश्च त्रिशीर्षश्च त्रिस्थाने त्रिशरीरवान् ।। २३.
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्। एतस्य पादाश्चत्वारः अङ्गानि क्रतवस्तथा ।। २३.
भुजाश्च वेदाश्चत्वारो ऋतुः सन्धिमुखानि च। द्वे मुखे द्वे च अयने नेत्राश्च चतुरस्तथा ।। २३.
शिरांसि त्रीणि पर्वाणि फाल्गुन्याषाढकृत्तिकाः। दिव्यान्तरिक्षभौमानि त्रीणि स्थानानि यानि तु। सम्भवः प्रलयश्चैव आश्रमौ द्वौ प्रकीर्त्तितौ ।। २३.
स यदा कालरूपाभो वराहत्वे व्यवस्थितः। भविष्यति यदा साध्यो विष्णुर्नारायणः प्रभुः ।। २३.
तदा त्वमपि देवेश चतुर्व्वक्त्रो भविष्यसि। ब्रह्मलोकनमस्कार्यो विष्णुर्नारायणः प्रभुः ।। २३.
एकार्णवे प्लवे चैव शयानं पुरुषं हरिम्। यदा द्रक्ष्यसि देवेशं ध्यानयुक्तं महामुनिम् ।। २३.
तदावां मम योगेन मोहितौ नष्टचेतसौ। अन्योन्यस्पर्द्धिनौ रात्रावविज्ञाय परस्परम् ।। २३.
एकैकस्योदरस्थांस्तु दृष्ट्वा लोकांश्चराचरान्। विस्मयं परमं गत्वा ध्यानाद्बुद्ध्वा तु मानुषौ ।। २३.
ततस्त्वं पझसंभूतः पझनाभः सनातनः। पद्माङ्कितस्तदा कल्पे ख्यातिं यास्यसि पुष्कलाम् ।। २३.