ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः। प्रपन्नस्तु महादेवं भक्तियुक्तेन चेतसा। उवाच वचनं सर्वं श्वेतत्वन्ते कथं विभो ।। २३.
श्वेतकल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम्। श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ।। २३.
श्वेतास्थिमांसरोमा च श्वेतत्वक् श्वेतलोहितः। तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ।। २३.
मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः। श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ।। २३.
यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः। विज्ञातः स्वेन तपसा सद्यो जातः सनातनः। सद्यो जातेति ब्रह्मैतद् गुह्यं चैव प्रकीर्तितम् ।। २३.
तस्माद् गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः। तत्समीपङ्गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः। ममकृतेन वर्णेन कल्पो वै लोहितः स्मृतः ।। २३.
तदा लोहितमासास्थिलोहितक्षीरसन्निभा । लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ।। २३.
ततोऽस्य लोहितत्वेन वर्णस्य च विपर्य्यये। वामत्वाच्चैव योगस्य वामदेवत्वमागतः ।। २३.
तथापि हि महासत्त्व त्वयाऽहं नियतात्मना। विज्ञातः श्वेत वर्णेन तस्माद्वर्णोत्तमः स्मृतः । ततोऽहं वामदेवेति ख्यातिं यातो महीतले ।। २३.
ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः। विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ।। २३.
सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
यदा तु पुनरेवायं कृष्णवर्णो भयानकः। मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ।। २३.
तत्राऽहं कालसंकाशः कालो लोकप्रकाशनः । विज्ञातोऽहं त्वया ब्रहमन् घोरो घोरपराक्रमः ।। २३.
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले। तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ।। २३.
तस्माद्विश्वत्वमान्नं ये मां पश्यन्ति भूतले । तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ।। २३.
तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः। विश्वरूपा तथा चेयं सावित्री समुदाहृता ।। २३.
सर्वरूपास्तथा चेमे संवृत्ता मम पुत्रकाः। चत्वारस्ते समाख्याताः पादा वै लोकसंमताः ।। २३.
तस्माच्च सर्व वर्णत्वं प्रजात्वं मे भविष्यति। सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ।। २३.
मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम्। तस्माद्वेत्ता च वेद्यं च चतुर्द्धा वै भविष्यति ।। २३.
भूतग्रामाश्च चत्वारः आश्रमाश्चतुरस्तथा। धर्मस्य पादाश्चत्वार श्चत्वारो मम पुत्रकाः ।। २३.
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्। चतुर्द्धाऽवस्थितं चैव चतुष्पादं भविष्यति ।। २३.
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा। जनस्तपश्च शांतश्च रुद्रलोकस्ततः परम् ।। २३.
स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः। तत्र लोकः परं स्थानं परन्तद्योगिनां स्मृतम् ।। २३.
निर्ममा निरहंकाराः कामक्रोधविवर्ज्जिताः। द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ।। २३.
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती। तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः। तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ।। २३.
सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः। जीवः प्राणभृतां ब्रह्मन् सर्वः पीत्वा स्तनैर्घृतम् ।। २३.
तस्मात् सोममयं चैतदमृतं चैव संज्ञितम्। चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ।। २३.
यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी। दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी। तस्माद्वै द्विपदाः सर्वे द्विस्तनाश्च नराः स्मृताः ।। २३.
यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी। दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा। तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति ।। २३.