शतं शतसहस्राणामतीता ये स्वयम्भुवः । पुरस्तात्तव देवेश तान् श्रृणुष्व महामुने ।। २३.
आनन्दस्तु स विज्ञेय आनन्दस्ते महालयः। गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ।। २३.
त्वयि योगश्च साङ्ख्यश्च तपो विद्याविधिः क्रिया। ऋतं स्त्यञ्च यद्ब्रह्म अहिंसा सन्ततिक्रमाः ।। २३.
ध्यानं ध्यानवपुः शान्तिर्विद्याऽपिद्यामतिर्धृतिः। कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्दिः सरस्वती। तुष्टिः पुष्टिः क्रिया चैव लज्जा क्षान्तिः प्रतिष्ठिता ।। २३.
षड्विंशत्तद्गुणा ह्येषा द्वात्रिशाक्षरसंज्ञिता । प्रकृतिं विद्धितां ब्रह्मंस्त्वत्प्रसूतिं महेश्वरीम् ।। २३.
सैषा भगवती देवी तत्प्रसूतिः स्वयम्भुवः। चतुर्मुखी जगद्योनिः प्रकृति र्गौः प्रकीर्त्तिता । प्रधानं प्रकृतिं चैव यदाहुस्तत्त्वचिन्तकाः ।। २३.
अजामेतां लोहितां शुक्लकृष्णां विश्वं संप्रसृजमानां सुरूपाम्। अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्रीं गां विश्वरूपां हि बुद्ध्वा ।। २३.५१ एवमुक्तवा महादेवः अट्टहासमथाकरोत् । वलितास्फोटितरवं कहाकहनदन्तथा ।। २३.
ततोऽस्य पार्श्वतो दिव्याः सर्वरूपाः कुमारकाः। जटी मुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ।। २३.
ततस्ते तु यथोक्तेन योगेन सुमहौजसः। दिव्यं वर्षसहस्रन्तु उपासित्वा महेश्वरम् ।। २३.
धर्मोपदेशं नियतं कृत्वा योगमयं दृढम्। शिष्टानां नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ।। २३.
ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः। प्रपन्नस्तु महादेवं भक्तियुक्तेन चेतसा। उवाच वचनं सर्वं श्वेतत्वन्ते कथं विभो ।। २३.
श्वेतकल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम्। श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ।। २३.
श्वेतास्थिमांसरोमा च श्वेतत्वक् श्वेतलोहितः। तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ।। २३.
मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः। श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ।। २३.
यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः। विज्ञातः स्वेन तपसा सद्यो जातः सनातनः। सद्यो जातेति ब्रह्मैतद् गुह्यं चैव प्रकीर्तितम् ।। २३.
तस्माद् गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः। तत्समीपङ्गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः। ममकृतेन वर्णेन कल्पो वै लोहितः स्मृतः ।। २३.
तदा लोहितमासास्थिलोहितक्षीरसन्निभा । लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ।। २३.
ततोऽस्य लोहितत्वेन वर्णस्य च विपर्य्यये। वामत्वाच्चैव योगस्य वामदेवत्वमागतः ।। २३.
तथापि हि महासत्त्व त्वयाऽहं नियतात्मना। विज्ञातः श्वेत वर्णेन तस्माद्वर्णोत्तमः स्मृतः । ततोऽहं वामदेवेति ख्यातिं यातो महीतले ।। २३.
ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः। विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ।। २३.
सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २३.
यदा तु पुनरेवायं कृष्णवर्णो भयानकः। मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ।। २३.
तत्राऽहं कालसंकाशः कालो लोकप्रकाशनः । विज्ञातोऽहं त्वया ब्रहमन् घोरो घोरपराक्रमः ।। २३.
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले। तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ।। २३.
तस्माद्विश्वत्वमान्नं ये मां पश्यन्ति भूतले । तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ।। २३.
तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः। विश्वरूपा तथा चेयं सावित्री समुदाहृता ।। २३.
सर्वरूपास्तथा चेमे संवृत्ता मम पुत्रकाः। चत्वारस्ते समाख्याताः पादा वै लोकसंमताः ।। २३.
तस्माच्च सर्व वर्णत्वं प्रजात्वं मे भविष्यति। सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ।। २३.
मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम्। तस्माद्वेत्ता च वेद्यं च चतुर्द्धा वै भविष्यति ।। २३.