यक्षेभ्यश्च तथैवोर्द्ध्वमाग्रहाद्विवहस्तु यः। पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरताङ्गणः ।। ६.
ऊर्द्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः । चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ।। ६.
सप्तर्षयस्तथैवोर्द्ध्वमाध्रुवात् सप्तमस्तु यः। वात स्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ।। ६.
एतत् सर्वं चरन्त्वेते काले काले ममात्मजाः। तत्र तेन च नाम्ना वै भवन्तु मरुतस्त्विमे ।। ६.
ततस्तेषान्तु नामानि मातापुत्रौ प्रचक्रतुः। तत्कृते कर्मभिश्चैव मरुतो वै पृथक् पृथक् ।। ६.
सत्त्वज्योतिस्तथादित्यः सत्यज्योतिस्तथाऽपरः। तिर्यग्ज्योतिश्च सज्योतिर्ज्ज्योतिष्मानपरस्तथा ।। ६.
प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत। ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।। ६.
सत्मित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः। गण एष द्वितीयस्तु तृतीयं मे निबोधत ।। ६.
कृतः सत्यो * * * * ध्रुवो धर्त्ता विधारयः । ध्वान्तश्चैव धुनिश्चैव ह्युग्रो भीमस्तथैव च। अभियुः सक्षिपश्चैवमाह्वयश्च गणः स्मृतः ।। ६.
ईदृकू चैव तथान्यादृक् यादृक् च प्रतिकृत्तथा। (?) समितिश्चैव संरम्भश्च तथा गणः ।। ६.
ईदृक् च पुरुषश्चैव अन्यादृक्षाच्च चेतसः। समितासमितदृक्षाच्च प्रतिदृक्षाच्च वै गुणाः ।। ६.
एते ह्येको नपञ्चाशन्मरुतो नामतः स्मृताः। प्रसंख्यातास्तथा ताभ्यां दित्या चन्द्रेण चैव हि ।। ६.
श्रुत्वा तेषान्तु नामानि दितिरिन्द्रमुवाच ह। वात स्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक। विचरन्तु च भद्रन्ते देवैः सह ममात्मजाः ।। ६.
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः। उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ।। ६.
सर्वमेतद्यथोक्तन्ते भविष्यति न संशयः। देवभूता महात्मानः कुमारा देवसंमताः। देवैः सह भविष्यन्ति यज्ञ भाजस्तथात्मजाः ।। ६.
तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजामराः। विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ।। ६.
एवं तौ निश्चयं ज्ञात्वा मातापुत्रौ तपोधनौ। जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ।। ६.
मरुतां हि शुभं जन्म श्रृणुयाद्यः पठेत वा। नावृष्टिभयमाप्नोति बह्वायुश्च भवेत्ततः ।। ६.
अत ऊर्द्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत। अभवन् दनुपुत्रास्तु वंशे ख्याता महासुराः ।। ७.
विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः। सर्वे लब्धवराश्चैव सुतप्ततपसस्तथा ।। ७.
सत्यसन्धाः पराक्रान्ताः क्रूरा मायाविनश्च ते । महाबला अयज्वानो ह्यब्रह्मण्याश्च दानवाः । कीर्त्त्यमानान्मया सर्वान् प्राधान्येन निबोधत ।। ७.
द्विमूर्द्धा शङ्कुवर्णश्च तथा शङ्कुनिरामयः। शङ्कुकर्णो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ।। ७.
अजामुखोऽथ भगवान् शिलो वामनसस्तथा। मरीचिरक्षकश्चैव महागार्ग्योऽङ्गिरावृतः ।। ७.
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा। इन्द्रजिद्विश्वजिच्चैव तथासुर विमर्द्दनः ।। ७.
एकचक्रः सुबाहुश्च तारकश्च महाबलः। वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ।। ७.
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः। धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापिनः ।। ७.
सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः। असिलोमा सुकेशश्च सदश्च बलको दश ।। ७.
तथा गगनमूर्द्धा च कुम्भनाभा महोदरः। प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ।। ७.
असुरश्च विरुपाक्षः सुपथोऽथ महासुरः। अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ।। ७.
शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ। असुराणां सुरावेतौ सुराणां साम्प्रताविमौ ।। ७.