६२.७० सूत उवाच॥ चाक्षुषस्य निसर्गन्तु समासाच्छ्रोतुमर्हथ । तस्यान्ववाये सम्भूतः पृथुर्वैन्यः प्रतापवान्
प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः
दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत् प्रजापतेः । स्वायम्भुवेन मनुना दत्तोऽत्रेः कारणं प्रति
मन्वन्तरमथासाद्य भविष्यं चाक्षुषस्य ह । षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः
उत्तानपादाच्चतुरा सूनृता वित्तभाविनी । उत्पन्ना चाधिधर्मेण ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्म्यां वै उत्पन्ना सा शुचिस्मिता
ध्रुवञ्च कीर्त्तिमन्तञ्च अयस्मन्तं वसुं तथा । उत्तानपादोऽजनयत् कन्ये द्वे च शुचिस्मिते । मनस्विनीं स्वराञ्चैव त्रयोः पुत्राः प्रकीर्त्तिताः
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् । तपस्तेपे निराहारः प्रार्थयन् विपुलं यशः
त्रेतायुगे तु प्रथमे पौत्रः स्वायम्भुवस्य सः । आत्मानं धारयन् योगात् प्रार्थयन् सुमहद्यशः
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् । आभूतसंप्लवं हृद्यमस्तोदयविवर्जितम्
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह । दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ॥२.१.
६२.८० अहो स्य तपसो वीर्यमहो श्रुतमहो हुतम्। स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् । ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः
ध्रुवात्पुष्टिञ्च भव्यञ्च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः
सत्याभिव्याहृते तस्य सद्यः स्त्री साभवत्तदा । दिव्यसंहन नाच्छाया दिव्याभरणभूषिता
छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकञ्च वृकलं धृतिम्
पत्नी प्राचीनगर्भस्य भूवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि
संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् । रिपुं रिपुञ्जयं जज्ञे वराङ्गी सा दिवञ्जयात्
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । व्यजीजनत् पुष्करिण्यां वारुण्यां चाक्षुणो मनुम् । प्रजापतेरात्मजायामारण्यस्य महात्मनः
मनोरजायन्त दशनद्वलायां शुभाः सुताः । कन्यायां वै महाभाग वैराजस्य प्रजापतेः
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव । अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥२.१.
६२.९० ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम्
अङ्गात सुनीथापत्यं वै वेनमेकं व्यजायत । अपचारेण वेनस्य प्रकोपः सुमहानभूत्
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् । वेनस्य पाणौ मथिते सम्बभूव महान्नृपः । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव । पृथुर्वैन्यः सर्वलोकान् ररक्ष क्षत्रपूर्वजः
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता । प्रजानां वृत्तिकामानां देवैऋषिगणैः सह
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः । सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा
तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा । प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत्
ऋषय ऊचुः॥ विस्तरेण पृथोर्जन्म कीर्त्तयस्व महा मते । यथा महात्मना दुग्धा पूर्वं तेन वसुन्धरा
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह । यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥२.१.