पीतमाल्याम्बरधराः पीतगन्धविलेपनाः । पीतोष्णीषशिरस्काश्च पीतास्याः पीतमूर्द्धजाः ।। २३.
ततो वर्षसहस्रान्ते उषित्वा विमलौजसः। योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ।। २३.
धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम्। उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ।। २३.
एवमेतेन विधिना प्रपन्ना ये महेश्वरम्। अन्येऽपि नियतात्मानो ध्यानयुक्ता जितोन्द्रियाः ।। २३.
ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्च्चसः। प्रविशन्ति महादेवं रुद्रन्ते त्वपुनर्भवाः ।। २३.
ततस्तस्मिन् गते कल्पे पीतवर्णे स्वयम्भुवः। पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ।। २३.
एकार्णवे तदावृत्ते दिव्ये वर्षसहस्रके । स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ।। २३.
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः । कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ।। २३.
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्। कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ।। २३.
कृष्णाम्बरवरोष्णीषं कृष्णयज्ञोपवीतिनम्। कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ।। २३.
स तं दृष्ट्वा महात्मानममरं घोर मन्त्रिणम्। ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ।। २३.
प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्। मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् । अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् ।। २३.
एवं वै ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः। मुमोच भगवान् रुद्रः अट्टहासं महास्वनम् ।। २३.
अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः । चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः ।। २३.
कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः। तैश्चाट्टहासः सुमहान् हूङ्कारश्चैव पुष्कलः। नमस्कारश्च सुमहान् पुनः पुनरुदीरितः ।। २३.
ततो वर्षसहस्रान्ते योगात्तत् पारमेश्वरम्। उपासित्वा महाभागाः शिष्येब्यः प्रददुस्ततः ।। २३.
योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्। अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ।। २३.
एवमेतेन योगेन ये चाप्यन्ये द्विजातयः। स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ।। २३.
ततस्तस्मिन् गते कल्पे कृष्णरुपे भयानके। अन्यः प्रवर्त्तितः कल्पो विश्वरुपस्तु नामतः ।। २३.
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे। ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः। प्रादुर्भूता महानादा विश्वरूपा सरस्वती ।। २३.
विश्वमाल्याम्बरधरं विश्वयज्ञोपवीतिनम्। विश्वोष्णीषं विश्वगन्धं विश्वस्थानं महाभुजम् ।। २३.
अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः। ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ।। २३.
ओमीशानं नमस्तेऽस्तु महादेव नमोऽस्तु ते। एवं ध्यानगतं तत्र प्रणमन्तं पितामहम्। उवाच भगवानीशः प्रीतोऽहं ते किमिच्छसि ।। २३.
ततस्तु प्रणतो भूत्वा वाग्भिः स्तुत्वा महेश्वरम्। उवाच भगवान् ब्रह्मा प्रीतः प्रीतेन चेतसा ।। २३.
यदिदं विश्वरूपन्ते विश्वगं विश्वमीश्वरम्। एतद्वेदितुमिच्छामि कश्चायं परमेश्वरः ।। २३.
कैषा भगवती देवी चतुष्पादा चतुर्मुखी। चतुःश्रृङ्गी चतुर्वक्रा चतुर्द्दन्ता चतुःस्तनी ।। २३.
चतुर्हस्ता चतुर्नेत्रा विश्वरुपा कथं स्मृता। किन्नामधेया कोऽस्यात्मा किंवीर्या वापि कर्मतः ।। २३.
रहस्यं सर्वमन्त्राणां पावनं पुष्ठिवर्द्धनम्। श्रृणुष्वैतत्परं गुह्यमादिसर्गे यथा तथम् ।। २३.
अयं यो वर्त्तते कल्पो विश्वरूपस्त्वसौ स्मृतः। यस्मिन् भवादयो देवाः षड्विंशन्मनवः स्मृताः ।। २३.
ब्रह्मस्थानमिदं चापि यदा प्राप्तं त्वया विभो। तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ।। २३.