ततो ध्यानगतस्तत्र ब्रह्म माहेश्वरीं पराम्। अपश्यद् गां विरुपां च महेश्वरमुखच्युताम् ।। २३.
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम्। चतुर्न्नेत्रां चतुःश्रृङ्गीं चतुर्द्दंष्ट्रां चतुर्मुखीम्। द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् ।। २३.
स तां दृष्ट्वा महातेजाः महादेवीं महेश्वरीम्। पुनराह महादेवः सर्वदेवनमस्कृतः ।। २३.
मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः। एह्येहीति महादेवी सोत्तिष्ठत् प्राञ्जलिर्भृशम् ।। २३.
विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु। अथ वा महादेवेन रुद्राणी त्वं भविष्यसि। ब्राह्मणानां हितार्थाय परमार्थं भविष्यसि ।। २३.
अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः। प्रददौ देवदेवेशश्चतुष्पादां महेश्वरीम्। ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ।। २३.
ब्रह्मा लोकनमस्कार्यः प्रपद्य तां महेश्वरीम्। गायत्रीन्तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः ।। २३.
इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम्। जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम्। प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ।। २३.
ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतः। ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ पुनः ।। २३.
अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः। ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ।। २३.
पीतमाल्याम्बरधराः पीतगन्धविलेपनाः । पीतोष्णीषशिरस्काश्च पीतास्याः पीतमूर्द्धजाः ।। २३.
ततो वर्षसहस्रान्ते उषित्वा विमलौजसः। योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ।। २३.
धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम्। उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ।। २३.
एवमेतेन विधिना प्रपन्ना ये महेश्वरम्। अन्येऽपि नियतात्मानो ध्यानयुक्ता जितोन्द्रियाः ।। २३.
ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्च्चसः। प्रविशन्ति महादेवं रुद्रन्ते त्वपुनर्भवाः ।। २३.
ततस्तस्मिन् गते कल्पे पीतवर्णे स्वयम्भुवः। पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ।। २३.
एकार्णवे तदावृत्ते दिव्ये वर्षसहस्रके । स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ।। २३.
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः । कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ।। २३.
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्। कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ।। २३.
कृष्णाम्बरवरोष्णीषं कृष्णयज्ञोपवीतिनम्। कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ।। २३.
स तं दृष्ट्वा महात्मानममरं घोर मन्त्रिणम्। ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ।। २३.
प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्। मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् । अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् ।। २३.
एवं वै ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः। मुमोच भगवान् रुद्रः अट्टहासं महास्वनम् ।। २३.
अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः । चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः ।। २३.
कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः। तैश्चाट्टहासः सुमहान् हूङ्कारश्चैव पुष्कलः। नमस्कारश्च सुमहान् पुनः पुनरुदीरितः ।। २३.
ततो वर्षसहस्रान्ते योगात्तत् पारमेश्वरम्। उपासित्वा महाभागाः शिष्येब्यः प्रददुस्ततः ।। २३.
योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्। अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ।। २३.
एवमेतेन योगेन ये चाप्यन्ये द्विजातयः। स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ।। २३.
ततस्तस्मिन् गते कल्पे कृष्णरुपे भयानके। अन्यः प्रवर्त्तितः कल्पो विश्वरुपस्तु नामतः ।। २३.
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे। ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः। प्रादुर्भूता महानादा विश्वरूपा सरस्वती ।। २३.