तत्र ते ऋषयः सर्व्वे सद्योजातं महेश्वरम्। तस्माद्विश्वेश्वरं देवं ये प्रपश्यन्ति वै द्विजाः। प्राणायामपरा युक्ता ब्रह्मणि व्यवसायिनः ।। २२.
ते सर्वे पापनिर्म्मुक्ता विमला ब्रह्मवर्च्चसः। ब्रह्मलो कमतिक्रम्य ब्रह्मलोकं व्रजन्ति च ।। २२.
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्त्तितः। रक्तो यत्र महातेजा रक्तवर्ण मधारयत् ।। २२.
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः। प्रादुर्भूतो महातेजाः कुमारो रक्तविग्रहः। रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् ।। २२.
स तं दृष्ट्वा महादेवं कुमारं रक्तवाससम्। ध्यानयोगं परङ्गत्वा बुबुधे विश्वमीश्वरम् ।। २२.
स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः। वामदेवं ततो ब्रह्मा ब्रह्मात्मकं व्यचिन्तयत् ।। २२.
एवं ध्यातो महादेवो ब्रह्मणा परमेष्ठिना। मनसा प्रीतियुक्तेन पितामहमथाब्रवीत् ।। २२.
ध्यायता पुत्रकामेन यस्मात्तेहं पितामहः। दृष्टः परमया भक्त्या ध्यानयोगेन सत्तम ।। २२.
तस्माद्धयानं परं प्राप्य कल्पे कल्पे महातपाः। वेत्स्यसे मां महासत्त्व लोकधातारमीश्वरम्। एवमुक्त्वा ततः शर्वः अट्टहासं मुमोच ह ।। २२.
ततस्तस्य महात्मानश्चत्वारश्च कुमारकाः। सम्बभूवुर्ममाहात्मानो विरेजुः शुद्धबुद्धयः ।। २२.
विरजस्व विवाहश्च विशोको विश्वभावनः। ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः ।। २२.
रक्ताम्बरधराः सर्वे रक्तमाल्यानुलेपनाः। रक्तभस्मानुलिप्ताङ्गा रक्तास्या रक्तलोचनाः ।। २२.
ततो वर्षसहस्रान्ते ब्रह्मण्या व्यवसायिनः। गृणन्तशचव महात्मानो ब्रह्म तद्वामदैवकम् ।। २२.
अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया। धर्मोपदेशमखिलं कृत्वा ते ब्राह्मणाः स्वयम् । पुनरेव महामदेवं प्रविष्टा रुद्रमव्ययम् ।। २२.
येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम्। प्रपद्यन्ति महादें तद्भक्तास्तत्परायणाः ।। २२.
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्च्चसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।। २२.
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः। ब्रह्म यत्र महातेजाः पीतवर्णत्वमागतः ।। २३.
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः। प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रवान् ।। २३.
पीतगन्धानुलिप्ताङ्गः पीतमाल्यधरो युवा। पीतयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ।। २३.
तं दृष्ट्वा ध्यानसंयुक्तं ब्रह्मा लोकेश्वरं प्रभुम्। मनसा लोकधातारं ववन्दे परमेश्वरम् ।। २३.
ततो ध्यानगतस्तत्र ब्रह्म माहेश्वरीं पराम्। अपश्यद् गां विरुपां च महेश्वरमुखच्युताम् ।। २३.
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम्। चतुर्न्नेत्रां चतुःश्रृङ्गीं चतुर्द्दंष्ट्रां चतुर्मुखीम्। द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् ।। २३.
स तां दृष्ट्वा महातेजाः महादेवीं महेश्वरीम्। पुनराह महादेवः सर्वदेवनमस्कृतः ।। २३.
मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः। एह्येहीति महादेवी सोत्तिष्ठत् प्राञ्जलिर्भृशम् ।। २३.
विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु। अथ वा महादेवेन रुद्राणी त्वं भविष्यसि। ब्राह्मणानां हितार्थाय परमार्थं भविष्यसि ।। २३.
अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः। प्रददौ देवदेवेशश्चतुष्पादां महेश्वरीम्। ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ।। २३.
ब्रह्मा लोकनमस्कार्यः प्रपद्य तां महेश्वरीम्। गायत्रीन्तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः ।। २३.
इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम्। जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम्। प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ।। २३.
ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतः। ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ पुनः ।। २३.
अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः। ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ।। २३.