अष्टाशीतिसहस्राणां योजनानां प्रमाणतः । रथन्तरन्तुविज्ञेयं परमं सूर्य्यमण्डलम्। तस्मादण्डन्तु विज्ञेयमभेद्यं सूर्यमण्डलम् ।। २१.
यत्सूर्य्यमण्डलञ्चापि बृहत्साम तु भिद्यते। भित्वा चैवं द्विजा यान्ति योगात्मानो दृढव्रताः। सङ्घातमुपनीताश्च अन्ये कल्पा रथन्तरे ।। २१.
इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम्। अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ।। २१.
अत्यद्भुतमिदं सर्व्वं कल्पानान्ते महामुने। रहस्यं वै समाख्यातं मन्त्राणाञ्च प्रकल्पनम् ।। २२.
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते। तस्माद्विस्तरतः सर्व्वाः कल्पसंख्या ब्रवीहि नः ।। २२.
अत्र वः कथयिष्यामि कल्पसंख्यां यथा तथा। युगाग्रं च वर्षाग्रन्तु ब्रह्मणः परमेष्ठिनः ।। २२.
एकं कल्पसहस्रन्तु ब्रह्मणोऽब्दः प्रकीर्त्तितः। एतदष्टसहस्रन्तु ब्रह्मणस्तद्युगं स्मृतम् ।। २२.
एकं युगसहस्रन्तु सवनं तत् प्रजापतेः। सवनानां सहस्रन्तु द्विगुणं त्रिवृतं तथा ।। २२.
ब्रह्मणः स्थितिकालस्य चैतत् सर्वं प्रकीर्तितम्। तस्य संख्यां प्रवक्ष्यामि पुरस्ताद्वै यथाक्रमम् ।। २२.
अष्टाविंशतिर्ये कल्पा नामतः परिकीर्तिताः। तैषां पुरस्ताद्वक्ष्यामि कल्पसंज्ञां, यथाक्रमम् ।। २२.
रथन्तरस्य साम्नस्तु उपरिष्टान्निबोधत। कल्पान्ते नाम धेयानि मन्त्रोत्पत्तिश्च यस्य या ।। २२.
एकोनविंशकः कल्पो विज्ञेयः श्रृतलोहितः। यस्मिंस्तत् परमध्यानं ध्यायतो ब्रह्मणस्तथा ।। २२.
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिखी। उत्पन्नस्तु महातेजाः कुमारः पावकोपमः ।। २२.
भीमं मुखं महारौद्रं सुघोरं श्वेतलोहितम्। दीप्तं दीप्तेन वपुषा महास्यं श्वेतवर्च्चसम् ।। २२.
तं दृष्ट्वा पुरुषः श्रीमान् ब्रह्मा वै विश्वतोमुखः। कुमारं लोकधातारं विश्वरूपं महेश्वरम् ।। २२.
पुराणपुरुषं देवं विश्वात्मा योगिनां चिरम्। ववन्दे देवदेवेशं ब्रह्मा लोकपितामहः ।। २२.
हृदि कृत्वा महादेवं परमात्मानमीश्वरम्। सद्योजातं ततो ब्रह्म ब्रह्मा वै सम चिन्तयत्। ज्ञात्वा मुमोच देवेशो हृष्टो हासं जगत्पतिः ।। २२.
ततोऽस्य पार्श्वतः श्वेता ऋषयो ब्रह्मवर्च्चसः। प्रादुर्भूता महात्मानः श्वेतमाल्यानुलेपनाः ।। २२.
सुनन्दो नन्दकशचवैव विश्वनन्दोऽथ नन्दनः। शिष्यास्ते वै महात्मानो यैस्तु ब्रह्म ततो वृतम् ।। २२.
तस्याग्रे श्वेत वर्णाभः श्वेतनामा महामुनिः। विजज्ञेऽथ महातेजा यस्माज्जज्ञे नरस्त्वसौ ।। २२.
तत्र ते ऋषयः सर्व्वे सद्योजातं महेश्वरम्। तस्माद्विश्वेश्वरं देवं ये प्रपश्यन्ति वै द्विजाः। प्राणायामपरा युक्ता ब्रह्मणि व्यवसायिनः ।। २२.
ते सर्वे पापनिर्म्मुक्ता विमला ब्रह्मवर्च्चसः। ब्रह्मलो कमतिक्रम्य ब्रह्मलोकं व्रजन्ति च ।। २२.
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्त्तितः। रक्तो यत्र महातेजा रक्तवर्ण मधारयत् ।। २२.
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः। प्रादुर्भूतो महातेजाः कुमारो रक्तविग्रहः। रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् ।। २२.
स तं दृष्ट्वा महादेवं कुमारं रक्तवाससम्। ध्यानयोगं परङ्गत्वा बुबुधे विश्वमीश्वरम् ।। २२.
स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः। वामदेवं ततो ब्रह्मा ब्रह्मात्मकं व्यचिन्तयत् ।। २२.
एवं ध्यातो महादेवो ब्रह्मणा परमेष्ठिना। मनसा प्रीतियुक्तेन पितामहमथाब्रवीत् ।। २२.
ध्यायता पुत्रकामेन यस्मात्तेहं पितामहः। दृष्टः परमया भक्त्या ध्यानयोगेन सत्तम ।। २२.
तस्माद्धयानं परं प्राप्य कल्पे कल्पे महातपाः। वेत्स्यसे मां महासत्त्व लोकधातारमीश्वरम्। एवमुक्त्वा ततः शर्वः अट्टहासं मुमोच ह ।। २२.
ततस्तस्य महात्मानश्चत्वारश्च कुमारकाः। सम्बभूवुर्ममाहात्मानो विरेजुः शुद्धबुद्धयः ।। २२.