यस्माददृश्यो भूतानां ब्रह्मणा परमेष्ठिना। दृष्टस्तु भगवान् देवः सूर्य्यः सम्पूर्णमण्डलः ।। २१.
सर्व्वे योगाश्च मन्त्राश्च मण्डलेन सहोत्थिताः। यस्मात् कल्पो ह्ययं दृष्टस्तस्मात्तं दर्श मुच्यते ।। २१.
यस्मान्मनसि सम्पूर्णो ब्रहमणः परमेष्ठिनः। पुरा वै भगवान् सोमः पौर्णमासी ततः स्मृता ।। २१.
तस्मात्तु पर्वदर्शे वै पौर्णमासञ्च योगिभिः। उभयोः पक्षयोर्ज्येष्ठमात्मनो हितकाम्यया ।। २१.
दर्शञ्च पौर्णमासञ्च ये यजन्ति द्विजातयः। न तेषां पुनरावृत्तिर्ब्रह्मलोकात् कदाचन ।। २१.
योऽनाहिताग्निः प्रयतो वीराध्वानं गतोपि वा । समाधाय मनस्तीव्रं मन्त्रमुच्चारयेच्छनैः ।। २१.
त्वमग्ने रुद्रो असुरो मही दिवस्त्वं शर्व्वो मारुतं पृष्ट ईशिषे। * त्वं पाशगन्धर्व्वशिषं पूषा विधत्तपासिना। इत्येव मन्त्रं मनसा सम्यगुच्चारयेद्द्विजः। अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति ।। २१.
सोमश्चाग्निस्तु भगवान् कालो रुद्र इति श्रुतिः। तस्माद्यः प्रविशेदग्निं स रुद्रान्न निवर्त्तते ।। २१.
अष्टाविंशतिमः कल्पो बृहदित्यभिसंज्ञितः। ब्रह्मणः पुत्रकामस्य स्रष्ठुकामस्य वै प्रजाः। ध्यायमानस्य मनसा बृहत्साम रथन्तरम् ।। २१.
यस्मात्तत्र समुत्पन्नो बृहतः सर्व्वतोमुखः। तस्मात्तु बृहतः कल्पो विज्ञेयस्तत्त्वचिन्तकैः ।। २१.
अष्टाशीतिसहस्राणां योजनानां प्रमाणतः । रथन्तरन्तुविज्ञेयं परमं सूर्य्यमण्डलम्। तस्मादण्डन्तु विज्ञेयमभेद्यं सूर्यमण्डलम् ।। २१.
यत्सूर्य्यमण्डलञ्चापि बृहत्साम तु भिद्यते। भित्वा चैवं द्विजा यान्ति योगात्मानो दृढव्रताः। सङ्घातमुपनीताश्च अन्ये कल्पा रथन्तरे ।। २१.
इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम्। अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ।। २१.
अत्यद्भुतमिदं सर्व्वं कल्पानान्ते महामुने। रहस्यं वै समाख्यातं मन्त्राणाञ्च प्रकल्पनम् ।। २२.
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते। तस्माद्विस्तरतः सर्व्वाः कल्पसंख्या ब्रवीहि नः ।। २२.
अत्र वः कथयिष्यामि कल्पसंख्यां यथा तथा। युगाग्रं च वर्षाग्रन्तु ब्रह्मणः परमेष्ठिनः ।। २२.
एकं कल्पसहस्रन्तु ब्रह्मणोऽब्दः प्रकीर्त्तितः। एतदष्टसहस्रन्तु ब्रह्मणस्तद्युगं स्मृतम् ।। २२.
एकं युगसहस्रन्तु सवनं तत् प्रजापतेः। सवनानां सहस्रन्तु द्विगुणं त्रिवृतं तथा ।। २२.
ब्रह्मणः स्थितिकालस्य चैतत् सर्वं प्रकीर्तितम्। तस्य संख्यां प्रवक्ष्यामि पुरस्ताद्वै यथाक्रमम् ।। २२.
अष्टाविंशतिर्ये कल्पा नामतः परिकीर्तिताः। तैषां पुरस्ताद्वक्ष्यामि कल्पसंज्ञां, यथाक्रमम् ।। २२.
रथन्तरस्य साम्नस्तु उपरिष्टान्निबोधत। कल्पान्ते नाम धेयानि मन्त्रोत्पत्तिश्च यस्य या ।। २२.
एकोनविंशकः कल्पो विज्ञेयः श्रृतलोहितः। यस्मिंस्तत् परमध्यानं ध्यायतो ब्रह्मणस्तथा ।। २२.
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिखी। उत्पन्नस्तु महातेजाः कुमारः पावकोपमः ।। २२.
भीमं मुखं महारौद्रं सुघोरं श्वेतलोहितम्। दीप्तं दीप्तेन वपुषा महास्यं श्वेतवर्च्चसम् ।। २२.
तं दृष्ट्वा पुरुषः श्रीमान् ब्रह्मा वै विश्वतोमुखः। कुमारं लोकधातारं विश्वरूपं महेश्वरम् ।। २२.
पुराणपुरुषं देवं विश्वात्मा योगिनां चिरम्। ववन्दे देवदेवेशं ब्रह्मा लोकपितामहः ।। २२.
हृदि कृत्वा महादेवं परमात्मानमीश्वरम्। सद्योजातं ततो ब्रह्म ब्रह्मा वै सम चिन्तयत्। ज्ञात्वा मुमोच देवेशो हृष्टो हासं जगत्पतिः ।। २२.
ततोऽस्य पार्श्वतः श्वेता ऋषयो ब्रह्मवर्च्चसः। प्रादुर्भूता महात्मानः श्वेतमाल्यानुलेपनाः ।। २२.
सुनन्दो नन्दकशचवैव विश्वनन्दोऽथ नन्दनः। शिष्यास्ते वै महात्मानो यैस्तु ब्रह्म ततो वृतम् ।। २२.
तस्याग्रे श्वेत वर्णाभः श्वेतनामा महामुनिः। विजज्ञेऽथ महातेजा यस्माज्जज्ञे नरस्त्वसौ ।। २२.