उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदशः। चतुर्द्दशस्तु गन्धर्वो गन्धर्वो यत्र वै स्वरः। उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः ।। २१.
ऋषभस्तु ततः कल्पो ज्ञेयः पंचदशो द्विजाः। ऋषयो यत्र सम्भूताः स्वरो लोकमनोहरः ।। २१.
षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः। शिशिरश्च वसन्तश्च निदाघो वर्ष एव च ।। २१.
शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः। उत्पन्नाः षड्ज संसिद्धाः पुत्राः कल्पे तु षोडशे ।। २१.
यस्माज्जातैश्च तैः षडभिः सद्यो जातो महेश्वरः। तस्मात् समुत्थितः षड्जः स्वरस्तूदधिसन्निभः ।। २१.
ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः। मार्ज्जालीयं तु तत् कर्म यस्माद्ब्राह्ममकल्पयत् ।। २१.
ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते। यस्मिंस्तु मध्यमो नाम स्वरो धैवतपूजितः । उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयंभुवः ।। २१.
ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः। वैराजो यत्र भगवान् मुनुर्वै ब्रह्मणः सुतः ।। २१.
तस्य पुत्रस्तु धर्मात्मा दधीचिर्न्नाम धार्मिकः। प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ।। २१.
अकामयत गायत्री यजमानं प्रजापतिम्। तस्माज्जज्ञे स्वरः स्रिग्धः पुत्रस्तस्य दधीचिनः ।। २१.
ततो विंशतिमः कल्पो निषादः परिकीर्त्तितः। प्रजापतिस्तु तं दृष्ट्वा स्वयम्भूप्रभवं तदा। विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् ।। २१.
दिव्यं वर्षसहस्रन्तु निराहारो जितेन्द्रियः। तमुवाच महांतेजा ब्रह्मा लोकपितामहः ।। २१.
ऊर्द्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम्। निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः। तस्मान्निषादः सम्भूतः स्वरस्तु स निषादवान् ।। २१.
एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः। प्राणोऽपानः समानश्च उदानो व्यान एव च ।। २१.
ब्रह्मणो मानसाः पुत्राः पञ्चैते ब्रह्मणः समाः। तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ।। २१.
यस्मात्परिगतैर्गीतः पञ्चभिस्तैर्महात्मभिः। स्वरस्तु पञ्चमः स्निग्धः तस्मात्कल्पस्तु पञ्चमः ।। २१.
द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः। यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम्। दिव्यं वर्षसहस्रन्तु अवहत् कृत्तिवाससम् ।। २१.
तस्य निःश्वसमानस्य भाराकान्तस्य वै मुखात्। निर्जगाम महाकायः कालो लोकप्रकाशनः। यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ।। २१.
त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकस्तथा। प्रजापतिसुतः श्रीमान् चितिश्च मिथुनञ्च तौ ।। २१.
ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता। तस्मात्तु चिन्तकः सो वै कल्पः प्रोक्तः स्वयम्भुवा ।। २१.
चतुर्विंशतिमश्चापि ह्याकूतिः कल्प उच्यते। आकूतिश्च तथा देवी मिथुनं सम्बभूव ह ।। २१.
प्रजाः स्रष्टुं तथाकूतिं यस्मादाह प्रजापतिः। तस्मात् स पुरुषो ज्ञेय आकूतिः कल्पसंज्ञितः ।। २१.
पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्त्तितः। विज्ञातिश्च तथा देवी मिथुनं सम्प्रसूयते ।। २१.
ध्यायतः पुत्रकामस्य मनस्यध्यात्मसंज्ञितम्। विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ।। २१.
षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते। देवी च शाङ्करी नाम मिथुनं सम्प्रसूयते ।। २१.
प्रजा वै चिन्तमानस्य स्रष्टुकामस्य वै तदा। यस्मात् प्रजासम्भवनादुत्पन्नस्तु स्वयम्भुवा । तस्मात् प्रजासम्भवनाद्भावनासम्भवः स्मृतः ।। २१.
सप्तविंशतिमः कल्पो भावो वै कल्पसंज्ञितः। पौर्णमासी तथा देवी मिथुनं समपद्यत ।। २१.
प्रजा वै स्रष्टुकामस्य ब्रह्मणः परमेष्ठिनः। ध्यायतस्तु परं ध्यानं परमात्मानमीश्वरम् ।। २१.
अग्निस्तु मण्डलीभूत्वा रश्मिजालसमावृतः । भुवन्दिवञ्चविष्टभ्य दीप्यते स महावपुः ।। २१.
ततो वर्षसहस्रान्ते सम्पूर्णे ज्योतिमण्डले। आविष्टया सहोत्पन्नमपश्यत् सूर्यमण्डलम् ।। २१.