उदङ्मुखः प्राङ्मुखो वा स्वस्थः स्वाचान्त एव च। स्वस्तिकोपनिविष्टश्च नमस्कृत्य महेश्वरम्। समकायशिरोग्रीवं धार्येन्नावलोकयेत् ।। १९.
यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता। प्रागुदक्प्रवणे देशे तस्माद्युञ्जीत योगवित् ।। १९.
प्राणे च रमते नित्यं चक्षुषोः स्पर्शने तथा। श्रोत्रे मनसि बुद्धौ च तथा वक्षसि धारयेत्। न तस्य धारणायोगाद्वायुः सर्वं प्रवर्त्तते ।। १९.
कालघर्मझ्च विज्ञाय समूह़ञ्चैव सर्वशः। द्वादशाध्यात्ममित्येवं योगधारणमुच्यते ।। १९.
शतमष्ट शतं वापि धारणां मूर्ध्नि धारयेत्। न तस्य धारणायोगाद्वायुः सर्वं प्रवर्तते ।। १९.
ततस्त्वापूरयेद्देहमोङ्कारेण समाहितः। अथोङ्कारमयो योगी न क्षरेत्त्वक्षरी भवेत् । १९.
अत ऊर्द्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम्। एष त्रिमात्रो विज्ञेयो व्यञ्जनञ्चात्र सस्वरम् ।। २०.
प्रथमा वैद्युती मात्रा द्वितीया तामसी स्मृता। तृतीया निर्गुणी विद्यान्मात्रामक्षरगामिनीम् ।। २०.
गन्धर्वीति च विज्ञेयो गान्धारस्वरसम्भवा। पिपीलिकासमस्पर्शा प्रयुक्ता मूर्द्नि लक्ष्यते ।। २०.
तथा प्रयुक्तमोङ्कारं प्रतिनिर्वाति मूर्द्धनि । तथोङ्कारमयो योगी ह्यक्षरे त्वक्षरी भवेत् ।। २०.
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन चेद्वध्यं शरवत्तन्मयो भवेत् ।। २०.
ओमित्येकाक्षरं ब्रह्म गुहायां निहितं पदम्। ओमित्येतत्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः। विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ।। २०.
मात्राश्चात्र चतस्रस्तु विज्ञेयाः परमार्थतः। तत्र युक्तश्च यो योगी तस्य सालोक्यतां व्रजेत् ।। २०.
अकारस्त्वक्षरो ज्ञेय उकारः स्वरितः स्मृतः। मकारस्तु प्लुतो ज्ञेयस्त्रिमात्र इति संज्ञितः ।। २०.
अकारस्त्वथ भूर्लोक उकारो भुवरुच्यते। सव्यञ्जनो मकारश्च स्वर्ल्लोकश्च विधीयते ।। २०.
ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम्। भुवनान्तञ्च तत्सर्वं ब्राह्मं तत्पदमुच्यते ।। २०.
मात्रापदं रुद्रलोको ह्यमात्रस्तु शिवं पदम्। एवन्ध्यानविशेषेण तत्पदं समुपासते ।। २०.
तस्माद्धयानरतिर्नित्यममात्रं हि तदक्षरम्। उपास्यं हि प्रयत्नेन शाश्वतं पदमिच्छता ।। २०.
हृस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम्। ततः प्लुतवती चैव तृतीया उपदिश्यते ।। २०.
एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः । यावच्चैव तु शक्यन्ते धार्यन्ते तावदेव हि ।। २०.
इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा । अत्राष्टमात्रमपिचेच्छृणुयात्फलमाप्नुयात् ।। २०.
मासे मासेऽश्वमेधेन यो यजेत शतं समाः । न स तत् प्राप्नुयात् पुण्यं मात्रया यदवाप्नुयात् ।। २०.
अब्बिन्दुं यः कुशाग्रेण मासे मासे पिबेन्नरः। संवत्सरशतं पूर्णं मात्रया तदवाप्नुयात् ।। २०.
इष्टापूर्त्तस्य यज्ञस्य सत्यवाक्ये च यत् फलम्। अभक्षणे च मांसस्य मात्रया तदवाप्नुयात् ।। २०.
स्वाम्यर्थे युध्यमानानां शूराणामनिवर्त्तिनाम्। यद्भवेत्तत् फलं दृष्टं मात्रया तदवाप्नुयात् ।। २०.
न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः। यत् फलं प्राप्नुयात् सम्यग् मात्रया तदवाप्नुयात् ।। २०.
तत्र वै योऽर्द्धमात्रो यः प्लुतो नामोपदिश्यते। एषा एव भवेत् कार्या गृहस्थानान्तु योगिनाम् ।। २०.
एषा चैव विशेषेण ऐश्वर्यसमलक्षणा। योगिनान्तु विशेषेण ऐश्वर्ये ह्यष्टलक्षणे। अणिमाद्येति विज्ञेया तस्माद्युञ्जीत तां द्विजः ।। २०.
एवं हि योगी संयुक्तः शुचिर्द्दान्तो जितेन्द्रियः। आत्मानं विन्दते यस्तु स सर्वं विन्दते द्विजः ।। २०.
ऋचो यजूंषि सामानि वेदोपनिषदस्तथा। योगज्ञानादवाप्नोति ब्राह्मणो ध्यानचिन्तकः ।। २०.