अग्रतः पृष्ठतो वापि खण्टं यस्य पदम्भवेत्। पांसुले कर्दमे वापि सप्तमासान् स जीवति ।। १९.
काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्द्धनि। क्रव्यादो वा खगः कश्चित् षण्मासान्नातिवर्त्तते ।। १९.
बध्ये द्वायसपङ्क्तीभिः पांशुवर्षैण वा पुनः। छायां वा विकृतां पश्येच्चतुःपञ्च स जीवति ।। १९.
अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमाश्रिताम्। उदकेन्द्रध नुर्वापि त्रयो द्वौवा स जीवति ।। १९.
अप्सु वा यदि वाऽऽदर्शे आत्मानं यो न पश्यति। अशिरस्कं तथात्मानं मासादूर्द्ध्वं न जीवति ।। १९.
शवगन्धि भवेद्गात्रं वसागन्धि ह्यथापि वा। मृत्युर्ह्युपस्थितस्तस्य अर्द्धमासं स जीवति ।। १९.
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति । अद्भिः स्पृष्टो न दृष्येच्च तस्य मृत्युरुपस्थितः ।। १९.
ऋक्षवानरयुक्तेन रथेनाशान्तु दक्षिणाम् । गायन्नथ व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः ।। १९.
कृष्णाम्ब रधरा श्यामा गायन्ती वाथ चाङ्गना। यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ।। १९.
छिद्रं वासशचव कृष्णञ्च स्वप्रे यो विधृयान्नरः । भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ।। १९.
आमस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे। दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ।। १९.
भस्माङ्गाराश्च केशांश्च नदीं शुष्कां भुजङ्गमान्। पश्येद्यो दशरात्रन्तु न स जीवेत तादृशः ।। १९.
कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः। पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ।। १९.
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा। क्रोशन्ती सम्मुखाभ्येति म गतायुर्भवेन्नरः ।। १९.
यस्य वै स्रातमात्रस्य हृदयं पीङ्यते भृशम्। जायते दन्तहर्षश्च तं गतायुषमादिशेत् ।। १९.
भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा। दीपगन्धञ्च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ।। १९.
रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम्। परनेत्रेषु चात्मानं न पश्येन्न स जीवति ।। १९.
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः। नासा च वक्रा भवति स ज्ञेयो गतजीवितः ।। १९.
यस्य कृष्णा खरा जिह्वा पङ्कभासञ्च वै मुखम्। गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः ।। १९.
मुक्तकेशो हसंश्चैव गायन् नृत्यंश्च यो नरः। याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ।। १९.
यस्य स्वेदसमुद्भूताः श्वेतसर्षपसन्निभाः। स्वेदा भवन्ति ह्यसकृत्तस्य मृत्युरुपश्थितः ।। १९.
उष्ठ्रा वा रासभा वापि युक्ताः स्व्परे रथेऽशुभाः। यस्य सोपि न जीवेत दक्षिणाभिमुखो गतः ।। १९.
द्वे चात्र परमेऽरिष्टे एतद्रूपं परं भवेत्। घोषं न श्रृणुयात् कर्णे ज्योतिर्न्नेत्रे न पश्यति ।। १९.
श्वभ्रेयो निपतेत् स्वप्ने द्वारञ्चास्य न विद्यते। न चोतिष्ठति यः श्वब्रात्तदन्तं तस्य जीवितम् ।। १९.
ऊर्द्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्त्तमाना। मुखस्य चोष्मा मुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ।। १९.
दिवा वा यति वा रात्रौ प्रत्यक्षं योऽभिहन्यते। तं पश्येदथ हन्तारं स हतस्तु न जीवति ।। १९.
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः। स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ।। १९.
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः। रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ।। १९.
अरिष्टसूचिते देहे तस्मिन् काल उपागते। त्यक्त्वा भयविषादञ्च उद्गच्छेदूभुद्धिमान्नरः ।। १९.
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः। समेऽतिस्थावरे देशे विविक्ते जनवर्ज्जिते ।। १९.