इदं ज्ञानमिदं ज्ञेयमिति यस्तुषितश्चरेत् । अपि कल्पसहस्रायुर्न्नैव ज्ञेयमवाप्नुयात् ।। १७.
त्यक्तसङ्गो जितकोधो लघ्वाहारो जितेन्द्रियः। पिधाय बुद्ध्या द्वाराणि ध्याने ह्येवं मनो दधेत् ।। १७.
शून्येष्वेवावकाशेषु गुहासु चवने तथा। नदीनां पुलिने चैव नित्यं युक्तः सदा भवेत् ।। १७.
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः। यस्यैते नियता दण्डाः स त्रिदण्डी व्यवस्थितः ।। १७.
अवस्थितो ध्यानरतिर्जितेन्द्रियः शुभाशुभे हित्य च कर्मणी उभे । इदं शरीरं प्रविमुच्य शास्त्रतो न जायते म्रियते वा कदाचित् ।। १७.
इति श्रीमहापुराणे वायुप्रोक्ते परमाश्रमप्राप्तिकथनं नाम सप्तदशोऽध्यायः
अत ऊर्द्ध्वं प्रवक्ष्यामि यतीनामिह निश्चयम्। प्रायश्चित्तानि तत्त्वेन यान्यकामकृतानि तु। अथ कामकृतेप्याहुः सूक्ष्मधर्मविदो जनाः ।। १८.
पापञ्च त्रिविधं प्रोक्तं वाङ्मनःकायसम्भवम्। सततं हिदिवा रात्रौ येनेदं बध्यते जगत् ।। १८.
न कर्माणि न चाप्येष तिष्ठ तीतिपरा श्रुतिः। क्षणमेव प्रयोज्यन्तु आयुषस्तु विधारणात् ।। १८.
भवेद्धीरोऽप्रमत्तस्तु योगो हि परमं बलम्। न हि योगात्परं किञ्चिन्नराणामिह दृश्यते। तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः ।। १८.
अविद्यां विद्यया तीर्त्वा प्राप्यैश्वयर्मनुत्तमम्। दृष्ट्वा परापरं धीराः परं गच्छन्ति तत्पदम् ।। १८.
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च। एकैकापक्रमे तेषां प्रायश्चित्तं विधीयते ।। १८.
उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् । प्राणायामसमायुक्तं कुर्यात्सान्तपनं तथा ।। १८.
तत श्चरति निर्द्देशं कृच्छ्रस्यान्ते समाहितः। पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः । न मर्मयुक्तं वचनं हिनस्तीति मनीषिणः ।। १८.
तथापि च न कर्त्तव्यः प्रसङ्गो ह्येष दारुणः। अहोरात्राधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः ।। १८.
हिंसा ह्येषा परा सृष्टा दैवतैर्मुनिभिस्तथा। यदेत[https://puranastudy.freeoda.com/pur_index14/dravina.htm द्द्रविणं] नाम प्राणा ह्येते बहिश्चराः। स तस्य हरति प्राणान् यो यस्य हरते धनम् ।। १८.
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः। भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ।। १८.
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः। ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः। भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ।। १८.
अहिंसा सर्वभूतानां कर्मणा मनसा गिरा । अकामादपि हिंसेत यदि भिक्षुः पशून् मृगान्। कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथीपि वा ।। १८.
स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि। तेन धारयितव्या वै प्राणायामास्तु षोडश ।। १८.
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते। त्रिरात्रमुपवासश्च प्राणायामशतं तथा ।। १८.
रात्रौ स्कन्नः शुचिः स्रातोद्वादशैव तु धारणाः। प्राणायामेन शुद्धात्मा विरजा जायते द्विजः ।। १८.
एकान्नं मधु मांसं वा ह्यामश्राद्धं तथैव च। अभोज्यानि यतीनाञ्च प्रत्यक्षलवणानि च ।। १८.
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते। प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ।। १८.
व्यतिक्रमाच्च ये केचिद्वाङ्मनःकायसम्भवम्। सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत् ।। १८.
विशुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषु चरन् स माहितः । स्थानं ध्रुवं शाश्वतमव्ययं सतां परं स गत्वा न पुनर्हि जायते ।। १८.
अत ऊर्द्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत। येन ज्ञानविशेषेण मृत्युं पश्यति चात्मनः ।। १९.
अरुन्धतीं ध्रुवञ्चैव सोमच्छायां महापथम्। यो न पश्येत्स नो जीवेन्नरः संवत्सरात्परम् ।। १९.
अरश्मिवन्तमादित्यं रश्मिवन्तञ्च पावकम्। यः पश्येन्न च जीवेत मासादेकादशात्परम् ।। १९.
वमेन्मूत्रं करीषं वा सुवर्णं रजतं तथा। प्रत्यक्षमथ वा स्वप्ने दशमासान् स जीवति ।। १९.