अक्षिणी नासिका श्रोत्रे हृदयं शिर एव च। द्वावात्मानावुभावेतौ प्राणापानावुदाहृतौ ।। १५.
तयोः प्राणोऽन्तरात्मास्य बाह्योऽपानोऽत उच्यते। अन्नं प्राणस्तथापानं मृत्युर्ज्जीवितमेव च ।। १५.
अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा। अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते। वर्द्धन्ते तेन भूतानि तस्मादन्नन्तदुच्यते ।। १५.
तदेवाग्नौ हुतं ह्यन्नं भुञ्जते देवदानवाः। गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि ।। १५.
इति श्रीमहापुराणे वायु प्रोक्ते पाशुपतयोगो नाम पञ्चदशोऽध्यायः
अत ऊद्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्। यदनुष्ठाय शुद्धात्मा प्रेत्य स्वर्गं हि चाप्नुयात् ।। १६.
उदकार्थी तु शौचानां मुनीनामुत्तमं पदम् । यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्न्नावसीदति ।। १६.
मानावमानौ द्वोवेतौ तावेवाहुर्विषामृते । अवमानं विषं तत्र मानन्त्वमृतमुच्यते ।। १६.
यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्न्नावसीदति । गुरोः प्रियहिते युक्तः स तु संवत्सरं वसेत् ।। १६.
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् । प्राप्यानुज्ञान्ततश्चैव ज्ञानागमनमुत्तमम्। अविरोधेन धर्मस्य विचरेत् पृथिवीमिमाम् ।। १६.
चक्षुः पूतं व्रजेन्मार्गं वस्त्रपूतं जलं पिबेत्। सत्यपूतां वदेद्वाणीमिति धर्मानुशासनम् ।। १६.
आतिथ्यं श्राद्धयज्ञेषु न गच्छेद्योगवित् व्कचित्। एवं ह्यहिंसको योगी भवेदिति विचारणा ।। १६.
वह्नौ विधूमे व्यङ्गारे सर्वृस्मिन् भुक्तवज्जने। विचरेन्मतिमान् योगी न तु तेष्वेव नित्यशः ।। १६.
यथैवमवमन्यन्ते यथा परिभवन्ति च। युक्तस्तथा चरेद्भैक्षं सतां धर्ममदूषयन् ।। १६.
भैक्षं चरेद्गृहस्थेषु यथाचारगृहेषु च। श्रेष्ठा तु परमा चेयं वृत्तिरस्योपदिश्यते ।। १६.
अत ऊर्द्ध्वं गृहस्थेषु शालीनेषु चरेद्द्विजः। श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ।। १६.
अत ऊर्द्ध्वं पुनश्चापि अदुष्टपतितेषु च। भैक्षचर्या विवर्णेषु जघन्या वृत्तिरुच्यते ।। १६.
भैक्षं यवागूं तक्रं वा पयो यावकमेव च। फळमूलं विपव्कं वा पिण्याकं शक्तितोपि वा ।। १६.
इत्येते वै मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः। आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्षमिति स्मृतम् ।। १६.
अब्बिन्दुं यः कुशाग्रेण मासे मासे समश्नुते। न्यायतो यस्तु भिक्षेत स पूर्वोक्ताद्विशिष्यते ।। १६.
योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं स्मृतम् । एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् ।। १६.
अस्तेयं ब्रह्मचर्यञ्च अलोभस्त्याग एव च। व्रतानि चैव भिक्षूणामहिंसा परमार्थिता ।। १६.
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्। नित्यंस्वाध्याय इत्येते नियमाः परिकीर्तिताः ।। १६.
बीचयोनिर्गुणवपुर्बद्धः कर्मभिरेव च। यथा द्विप इवारण्ये मनुष्याणां विधीयते ।। १६.
प्राप्यते वाचिरादेवाङ्कुशेनेव निवारितः। एवं ज्ञानेन शुद्धेन दग्धबीचो ह्यकल्मषः। विमुक्तबन्धः शान्तोऽसौ मुक्त इत्यभिधीयते ।। १६.
वेदैस्तुत्या सर्वयज्ञक्रियास्तु यज्ञे जप्यं ज्ञानिनामाहुरग्रयम्। ज्ञानाद्धयानं सङ्गरागव्यपेतं तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः ।। १६.
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेष्वथार्ज्जवम्। अतीन्द्रियज्ञानमिदं तथार्ज्जवं प्राहुस्तथा ज्ञानविशुद्धसत्त्वाः ।। १६.
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैवात्मरतिर्जीतेन्द्रियः। समाप्नुयुर्योगमिमं महाधियो महर्षयश्चैवमनिन्दितामलाः ।। १६.
आश्रमत्रयमुत्सृज्य प्राप्तस्तु परमाश्रमम्। अतः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम् ।। १७.
अनुज्ञाप्य गुरूंचैव विचरेत् पृथिवीमिमाम्। सारभूतमुपासीत ज्ञानं यज्ज्ञेय साधकम् ।। १७.