न ह्येनं प्रस्थितं कश्चिद्गच्छन्तमनुगच्छति। यदनेन कृतं कर्म्म तदेनमनुगच्छति ।। १४.
ते नित्यं यमविषये विभिन्नदेहाः क्रोशन्तः सततमनिष्टसंप्रयोगैः। शुष्यन्ते परिगतवेदनाशरीराः बह्वीभिः सुभृशमधर्म्मयातनाभिः ।। १४.
कर्मणाः मनसा वाचा यदभीष्टं निषेव्यते। तत् प्रसद्य हरेत् पापं तस्मात् सुकृतमाचरेत् ।। १४.
यादृग् जातानि पापानि पूर्व्वं कर्म्माणि देहिनः। संसारं तामसं तादृक् षह्विधं प्रतिपद्यते ।। १४.
मानुष्यं पशुभावञ्च पशुभावान्मृगो भवेत्। मृगत्वात् पक्षिभावन्तु तस्माच्चैव सरीसृपः ।। १४.
सरीसृपत्वाद्गच्छोद्धि। स्थावरत्वन्न संशयः। स्थावरत्वं पुनः प्राप्तो यावदुन्मिषते नरः। कुलालचकवद्भान्तस्तत्रैवपरिकीर्तितः ।। १४.
इत्येवं हि मनुष्यादिः संसारे स्थावरान्तके। विज्ञेयस्तामसो नाम तत्रैव परिवर्त्तते ।। १४.
सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्त्तितः। पिशाचान्तः सविज्ञेयः स्वर्गस्थानेषु देहिनाम् ।। १४.
ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः। चतुर्द्दशानां स्थानानां मध्ये विष्टम्भकं रजः। मर्मसु च्छिद्यमानेषु वेदनार्त्तस्य देहिनः ।। १४.
ततस्तु परमं ब्रह्म कथं विप्रः स्मरिष्यति । संस्कारात् पूर्वधर्मस्य भावनायां प्रणोदितः। मानुष्यं भजते नित्यं तस्मान्नित्यं समादधेत् ।। १४.
चतुर्द्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्। तथा समारभेत् कर्म्म संसारभयपीडितः ।। १५.
ततः स्मरति संसारचक्रेण परिवर्त्तितः। तस्मात्तु सततं युक्तो ध्यानतत्परयुञ्जकः। तथा समारभेद्योगं यथात्मानं स पश्यति ।। १५.
एष आद्यः परं ज्योतिरेष सेतुरनुत्तमः। विवृद्धो ह्येष भूतानां न सम्भेदश्च शाश्वतः ।। १५.
तदेनं सेतुमात्मानं अग्निं वै विश्वतोमुखम्। हृदिस्थं सर्वभूतानामुपासीत विधानवित् ।। १५.
हुत्वाष्टावाहुतीः सम्यक् शुचिस्तद्गतमानसः। वैश्वानरं हृदिस्थन्तु यथावदनुपूर्वशः। अपः पूर्व सकृत् प्राश्य तुष्णीं भूत्वा उपासते ।। १५.
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता। अपानाय द्वितीया तु समानायेति चापरा ।। १५.
उदानाय चतुर्थीति व्यानायेति च पञ्चमी। स्वाहा कारैः परं हुत्वा शेषं भुञ्जीत कामतः। अपः पुनः सकृत् प्राश्य त्र्याचम्य हृदयं स्पृशेत् ।। १५.
ॐप्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः। स रुद्रो ह्यात्मनः प्राणा एवमाप्याययेत् स्वयम् ।। १५.
त्वं देवानामपि ज्येष्ठ उग्रस्त्वं चतुरो वृषा । मृत्युघ्नोऽसि त्वमस्मभ्यं भद्रमेतद्धुतं हविः ।। १५.
एवं हृदयमालभ्य पादाङ्गुष्ठे तु दक्षिणे। विश्राव्य दक्षिणं पाणिं नाभिं वै पाणिना स्पृशेत् । ततः पुनरुपस्पृश्य चात्मानमभिसंस्पृशेत् ।। १५.
अक्षिणी नासिका श्रोत्रे हृदयं शिर एव च। द्वावात्मानावुभावेतौ प्राणापानावुदाहृतौ ।। १५.
तयोः प्राणोऽन्तरात्मास्य बाह्योऽपानोऽत उच्यते। अन्नं प्राणस्तथापानं मृत्युर्ज्जीवितमेव च ।। १५.
अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा। अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते। वर्द्धन्ते तेन भूतानि तस्मादन्नन्तदुच्यते ।। १५.
तदेवाग्नौ हुतं ह्यन्नं भुञ्जते देवदानवाः। गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि ।। १५.
इति श्रीमहापुराणे वायु प्रोक्ते पाशुपतयोगो नाम पञ्चदशोऽध्यायः
अत ऊद्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्। यदनुष्ठाय शुद्धात्मा प्रेत्य स्वर्गं हि चाप्नुयात् ।। १६.
उदकार्थी तु शौचानां मुनीनामुत्तमं पदम् । यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्न्नावसीदति ।। १६.
मानावमानौ द्वोवेतौ तावेवाहुर्विषामृते । अवमानं विषं तत्र मानन्त्वमृतमुच्यते ।। १६.
यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्न्नावसीदति । गुरोः प्रियहिते युक्तः स तु संवत्सरं वसेत् ।। १६.
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् । प्राप्यानुज्ञान्ततश्चैव ज्ञानागमनमुत्तमम्। अविरोधेन धर्मस्य विचरेत् पृथिवीमिमाम् ।। १६.