मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा। हतपुत्रास्मि भगवान् आदित्यैस्तव सूनुभिः ।। ६.
शक्रहन्तारमिच्छेयं पुत्रं दीर्घतपोऽन्वितम्। अहं तपश्चरिष्यामि गर्भ माधातुमर्हसि ।। ६.
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा। प्रत्युवाच महातेजा दितिं परमदुःखिताम् ।। ६.
एवं भवतु भद्रन्ते शुचिर्भव तपोधने। जनयिष्यसि सत्पुत्रं शक्रहन्तारमाहवे ।। ६.
पूर्णं वर्षशतं तावत् शुचिर्यदि भविष्यसि । पुत्रं त्रिलोकप्रचरमथत्वं जनयिष्यसि ।। ६.
एवमुक्त्वा महातेजास्तया समवसत् प्रभुः । तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ।। ६.
गते भर्त्तरि सा देवी दितिः परमहर्षिता। कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ।। ६.
तपस्तस्यान्तु कुर्वन्त्यां परिचर्याञ्चकार ह। सहस्राक्षः सुरश्रेष्ठः परया गुणसम्पदा ।। ६.
अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि किञ्चन ।। ६.
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु (लोकेषु) कालेषु दितिं परिचचार ह । एवमाराधिता शक्रमुवाचाथ दितिस्तथा ।। ६.
प्रीता तेऽहं सुरश्रेष्ठ दशवर्षाणि पुत्रक। अवशिष्टानि भद्रान्ते भ्रातरं द्रक्ष्यसे ततः ।। ६.
जयलिप्सां समाधास्ये लब्ध्वाहं तादृशं सुतम्। त्रैलोक्यविजयं पूत्र प्राप्स्यामि सह तेन वै ।। ६.
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे । निद्रयापहृता देवी जान्वोः कृत्वा शिरस्तदा ।। ६.
दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्द्धजाम् । तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ।। ६.
तस्याः शरीरं विवृतं विवेशाथ पुरन्दरः। प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम्। अभिनत्स प्रधानन्तु कुलिशेन महायशाः ।। ६.
भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा। रुरोद सस्वरं भीमं वेपमानः पुनः पुनः । मारोदीरिति तं गर्भं शक्रः पुनरभाषत ।। ६.
तं गर्भं सप्तधाभूतं ह्येकैकं सप्तधा पुनः। कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यत ।। ६.
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपातोदराद्वज्री मातुर्वचनगौरवात्। प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।। ६.
अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा। तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। भिन्नवान् गर्भमेतन्ते बहुधा क्षन्तुमर्हसि ।। ६.
तस्मिस्तु विफले गर्भे दितिः परमदुःखिता। सहस्राक्षं ततो वाक्यं मातुर्नयनमब्रवीत् ।। ६.
ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः। नापराधोऽस्ति देवेश ऋषिपुत्र महाबल ।। ६.
शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः। प्रियन्तु कर्त्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ।। ६.
भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि। वातस्कन्धानिमान् सप्त चरन्तु मम पुत्रकाः। मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ।। ६.
पृथिव्यां प्रथमस्कन्धो द्वितीयश्चैव भास्करे। सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।। ६.
ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले। ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ।। ६.
तान्येते विचरन्त्वद्य काले काले ममात्मजाः। वातस्कन्धानिमान् भूत्वा चरन्तु मम पुत्रकाः ।। ६.
पृथिव्यां प्रथमस्कन्धो अमेध्येभ्यो य आवहः। चरन्तु मम पुत्रास्ते प्रथमश्चरताङ्गणः ।। ६.
द्वितीयश्चापि मेध्येभ्य आसूर्यात् प्रवहस्तु यः। वातस्कन्धं द्वितीयन्तु द्वितीयश्चरताङ्गणः ।। ६.
सूर्योर्द्ध्वन्तु ततः सोमादुद्वहो यस्तु वै स्मृतः। वातस्कन्धन्तु तं प्राहुस्तृतीयश्चरताङ्गणः ।। ६.
सोमादूर्द्ध्वं तथर्क्षेभ्यश्चतुर्थः सुवहस्तु यः। चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ।। ६.