गुणान्तरन्तु ऐश्वर्ये सर्वतः सूक्ष्म उच्यते। ऐश्वर्य्यमप्रतीघाति प्राप्य योगमनुत्तमम्। अपवर्गं ततो गच्छेत् सुसूक्ष्मं परमं पदम् ।। १३.
न चैवमागतो ज्ञानाद्रागात् कर्म्म समाचरेत्। राजसं तामसं वापि भुक्त्वा तत्रैव युज्यते ।। १४.
तथा सुकृतकर्म्मा तु फलं स्वर्गे समश्रुते। तस्मात् स्थानात् पुनर्भ्रष्टो मानुष्यमनुपद्यते ।। १४.
तस्माद्ब्रह्म परं सूक्ष्मं ब्रह्म शाश्वतमुच्यते। ब्रह्म एव हि सेवेत ब्रह्मैव परमं सुखम् ।। १४.
परिश्रमस्तु यज्ञानां महतार्थेन वर्त्तते। भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् ।। १४.
अथ वै ध्यानसंयुक्तो ब्रह्मयज्ञपरायणः । न स स्याद् व्यापितुं शक्यो मन्वन्तरशतैरपि ।। १४.
दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वरूपिणम्। विश्वपाद शिरोग्रीवं विश्वेशं विश्वभावनम्। विश्वगन्धं विश्वमाल्यं विश्वाम्बरधरं प्रभुम् ।। १४.
गोभिर्मही संयतते पतत्रिणं महात्मानं परममतिं वरेण्यम्। कविं पुराणमनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम्। योगेन पश्यन्ति न चक्षुषा तं निरिन्द्रियं पुरुषं रुक्मवर्णम् ।। १४.
अलिङ्गिनं पुरुषं रुक्मवर्णं सलिङ्गिनं निर्गुणं चेतनं च। नित्यं सदा सर्वगतन्तु शौचं पश्यन्ति युक्त्या ह्यचलं प्रकाशम् ।। १४.
तद्भावितस्तेजसा दीप्यमानः अपाणिपादोदरपार्श्वजिह्वः। अतीन्द्रियोऽद्यापि सुसूक्ष्म एकः पश्यत्यचक्षुः स श्रृणोत्यकर्णः ।। १४.
नास्यास्त्यबुद्धं न च बुद्धिरस्ति स वेद सर्वं न च वेदवेद्यः। तमाहुरग्र्यं पुरुषं महान्तं सचेतनं सर्व्वगतं सुसूक्ष्मम् ।। १४.
तामाहुर्मुनयः सर्व्वे लोके प्रसवधर्मिणीम्। प्रकृतिं सर्व्वभूतानां युक्ताः पश्यन्ति चेतसा ।। १४.
सर्व्वतः पाणिपादान्तं सर्व्वतोऽक्षिशिरोमुखम्। सर्व्वतः श्रुति (म) माँल्लोके सर्व्वमावृत्य तिष्ठति ।। १४.
युक्ता योगेन चेशानं सर्व्वतश्च सनातनम्। पुरुषं सर्व्वभूतानां तस्माद्ध्याता न मुह्यते ।। १४.
भूतात्मानं महात्मानं परमात्मानमव्ययम्। सर्व्वात्मानं परं ब्रह्म तद्वै ध्यात्वा न मुह्यति ।। १४.
पवनो हि यथा ग्राह्यो विचरन् सर्व्वमूर्तिषु। पुरि शेते तथाभ्रे च तस्मात् पुरुष उच्यते। अथ चेल्लुप्तधर्म्मात्तु सविशेषैश्च कर्म्माभिः ।। १४.
ततस्तु ब्रह्म योन्यां वै शुक्रशोणितसंयुतम्। स्त्रीपुमांसप्रयोगेण जायते हि पुनः पुनः ।। १४.
ततस्तु गर्भकाले तु कलनं नाम जायते। कालेन कलनञ्चापि बुद्बुदश्च प्रजायते ।। १४.
मृत्पिण्डस्तु यथा चक्रे चक्रवातेन पीडितः। हस्ताभ्यां क्रियमाणस्तु विश्वत्वमुपगच्छति ।। १४.
एवमात्मास्थिसंयुक्तो वायुना समुदीरितः। जायते मानुषस्तत्र यथा रूपं तथा मनः ।। १४.
वायुः सम्भवते तेषां वातात् सञ्जायते जलम्। जलात्संभवति प्राणः प्राणाच्छुक्रं विवर्द्धते ।। १४.
रक्तभागास्त्रयस्त्रिंशच्छुक्र भागाश्चतुर्द्दश। भागतोऽर्द्धपलं कृत्वा ततो गर्भे निषेवते ।। १४.
ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः। पितुः शरीरात् प्रत्यङ्गरूपमस्योपजायते ।। १४.
ततोऽस्य मातुराहारात् पीतलीढप्रवेशितम्। नाभि स्रोतःप्रवेशेन प्राणाधारो हि देहिनाम् ।। १४.
नवमासान् परिक्लिष्टः संवेष्टितशिरोधरः । वेष्टितः सर्व्वगात्रैश्च अपर्य्यायक्रमागतः। नवमासोषितश्चैव योनिच्छिद्रादवाङ्मुखः ।। १४.
ततस्तु कर्म्मभिः पापैर्निरयं प्रतिपद्यते। असिपत्रवनञ्चैव शाल्मलीच्छेदभेदयोः ।। १४.
तत्र निर्भर्त्सनञ्चैव तथा शोणितभोजनम् । एतास्तु यातन् घोराः कुम्भीपाकसुदुःसहाः ।। १४.
यथा ह्यापस्तु विच्छिन्नाः स्वरूपमुपयान्ति वै । तस्माच्छिन्नाश्च भिन्नाश्च यातनास्थानमागतः ।। १४.
एवं जीवस्तु तैः पापैस्तप्यमानः स्वयं कृतैः । प्राप्नुयात् कर्म्मभिर्दुःखं शेषं वा यादि चेतरम् ।। १४.
एकेनैव तु गन्तव्यं सर्व्वमृत्युनिवेशनम्। एकनैव च भोक्तव्यं तस्मात् सुकृतमाचरेत् ।। १४.