विशेद्यदा द्विजो युक्तो यत्र यत्रार्प्पयेन्मनः । भूतान्याविशते वापि त्रैलोक्यञ्चापि कम्पयेत् ।। १२.
एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह। मनोद्वारं हि योगानामादित्यञ्च विनिर्द्दिशेत् ।। १२.
आदानादिक्रियाणान्तु आदित्य इति चोच्यते। एतेन विधिना योगी विरक्तः सूक्ष्मवर्ज्जितः। प्रकृतिं समतिक्रम्य रुद्रलोके महीयते ।। १२.
ऐश्वर्यगुणसम्प्राप्तं ब्रह्मभूतन्तु तं प्रभुम्। देवस्थानेषु सर्वेषु सर्वतस्तु निवर्त्तते ।। १२.
पैशाचांशचव पिशाचांश्च राक्षसेन च राक्षसान् । गान्धर्वेण च गन्धर्वान् कौबेरेण कुबेरजान् ।। १२.
इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि। प्रजापतिं तथा चैव प्राजापत्येन साधयेत् ।। १२.
ब्राह्मं ब्राह्येन चाप्येवमुपामन्त्रयते प्रभुम्। तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्त्तते ।। १२.
नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् । असज्यमानः स्थानेषु द्विजः सर्वगतो भवेत् ।। १२.
अत ऊर्द्ध्वं प्रवक्ष्यामि ऐश्वर्यगुण विस्तरम्। येन योगविशेषेण सर्वलोकानतिक्रमेत् ।। १३.
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम्। तत्सर्वं क्रमयोगेन उच्यमानं निबोधत ।। १३.
अणिमा लघिमा चैव महिमा प्राप्तिरेव च। प्राकाम्यज्चैव सर्वत्र ईशित्वञ्चैव सर्वतः ।। १३.
वशित्वमथ सर्वत्र यत्र कामावसायिता। तच्चापि विविधं ज्ञेयमैश्वर्यं सर्वकामिकम् ।। १३.
सावद्यं निरवद्यं च सूक्ष्मञ्चैव प्रवर्त्तते। सावद्यं नाम तत्तत्त्वं पञ्चभूतात्मकं स्मृतम् ।। १३.
निरवद्यं तथा नाम पञ्चभूतात्मकं स्मृतम्। इन्द्रियाणि मनश्चैव अहह्कारश्च वै स्मृतम् ।। १३.
तत्र सूक्ष्मप्रवृत्तन्तु पञ्चभूतात्मकं पुनः। इन्द्रियाणि मनश्चैव बुद्ध्यहङ्कार संज्ञितम् ।। १३.
तथा सर्वमयञ्चैव आत्मस्था ख्यातिरेव च। संयोग एवं त्रिपिधः सूक्ष्मेष्वेव प्रवर्त्तते ।। १३.
पुनरष्टगुणस्यापि तेष्वेवाथ प्रवर्त्तते। तस्य रूपं प्रवक्ष्यामि यथाह भगवान् प्रभुः ।। १३.
त्रैलोक्ये सर्वबूतेषु जीवस्यानियतः स्मृतः। अणिमा च यथाव्यक्तं सर्वं यत्र प्रतिष्ठितम् ।। १३.
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्। तच्चापि भवति प्राप्यं प्रथमं योगिनां बलात् ।। १३.
लम्बनं प्लवनं योगे रूपमस्य सदा भवेत् । शीघ्रगं सर्वभूतेषु द्वितीयं तत्पदं स्मृतम् ।। १३.
त्रैलोक्ये सर्वभूतानां प्राप्तिः प्राकाम्यमेव च। महिमा चापि यो यस्मिंस्तृतीयो योग उच्यते ।। १३.
त्रैलोक्ये सर्वभूतेषु त्रैलोक्यमगमं स्मृतम्। प्रकामान् विषयान् भुङ्क्ते न च प्रतिहतः व्कचित् । त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रकर्त्तते ।। १३.
ईशो भवति सर्वत्र प्रविभागेन योगवित्। वश्यानि चैव भूतानि त्रैलोक्ये सचराचरे। भवन्ति सर्वकार्येषु इच्छतो न भवन्ति च ।। १३.
यत्र कामावसायित्वं त्रैलोक्ये सचराचरे। इच्छया चेन्द्रियाणि स्युः भवन्ति न भवन्ति च ।। १३.
शब्दः स्पर्शो रसो गन्धो रूपं चैव मन स्तथा। प्रवर्त्तन्तेऽस्य चेच्छातो न भवन्ति तथेच्छया ।। १३.
न जायते न म्रियते भिद्यते न च छिद्यते। न दह्यते न मुह्यते हीयते न च लिप्यते ।। १३.
न क्षीयते न क्षरति न खिद्यति कदाचन। क्रियते चैव सर्वत्र तथा विक्रियते न च ।। १३.
अगन्धरसरूपस्तु स्पर्शशब्दविवर्ज्जितः। अवर्णो ह्यवरश्चैव तथा वर्णस्य कर्हिचित् ।। १३.
भुङ्क्तेऽथ विषयांश्चैव विषयैर्न्न च युज्यते। ज्ञात्वा तु परमं सूक्ष्मं सूक्ष्मत्वाच्चापवर्गकः ।। १३.
व्यापकस्त्वपवर्गाच्च व्यापित्वात्पुरुषः स्मृतः। पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परतः स्थितः ।। १३.