आत्मानं मन्यते वायुं वायुवन्मण्डलं प्रभो । आकाशं धारयाणस्य व्योम सूक्ष्मं प्रवर्त्तते ।। १२.
पश्यते मण्डलं सूक्ष्मं घोषश्चास्य प्रवर्त्तते । आत्मानं मन्यते नित्यं वायुः सूक्ष्मः प्रवर्त्तते ।। १२.
तथा मनो धारयतो मनः सूक्ष्मं प्रवर्त्तते । मनसा सर्वभूतानां मनस्तु विशते हि सः। बुद्ध्या बुद्धिं यदा युञ्जेत्तदा विज्ञाय बुद्धयते ।। १२.
एतानि सप्त सूक्ष्माणि विदित्वा यस्तु योगवित्। परित्यजति मेधावी स बुद्ध्या परमं व्रजेत् ।। १२.
यस्मिन् यस्मिंश्च संयुक्तो भूत ऐश्वर्यलक्षणे। तत्रैव सङ्गं भजते तेनैव प्रविनश्यति ।। १२.
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम्। परित्यजति योबुद्ध्या स परं प्रप्नुयाद्द्विजः ।। १२.
दृश्यन्ते हि महात्मान ऋषयो दिव्यचक्षुषः। संसक्ताः सूक्ष्मभावेषु ते दोषास्तेषु संज्ञिताः।।१२.२८ तस्मान्न निश्चयः कार्यः सूक्ष्मेष्विह कदाचन। ऐश्वर्याज्जायते रागो विरागं ब्रह्म चोच्यते ।। १२.
विदित्वा सप्त सूक्ष्माणि षडङ्गञ्च महेश्वरम्। प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति ।। १२.
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ।। १२.
नित्यं ब्रह्मधनो युक्त उपसर्गैः प्रमुच्यते। जितश्वासोपसर्गस्य जितरामस्य योगिनः। एका बहिःशरीरेऽस्मिन् धारणा सर्वकामिकी ।। १२.
विशेद्यदा द्विजो युक्तो यत्र यत्रार्प्पयेन्मनः । भूतान्याविशते वापि त्रैलोक्यञ्चापि कम्पयेत् ।। १२.
एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह। मनोद्वारं हि योगानामादित्यञ्च विनिर्द्दिशेत् ।। १२.
आदानादिक्रियाणान्तु आदित्य इति चोच्यते। एतेन विधिना योगी विरक्तः सूक्ष्मवर्ज्जितः। प्रकृतिं समतिक्रम्य रुद्रलोके महीयते ।। १२.
ऐश्वर्यगुणसम्प्राप्तं ब्रह्मभूतन्तु तं प्रभुम्। देवस्थानेषु सर्वेषु सर्वतस्तु निवर्त्तते ।। १२.
पैशाचांशचव पिशाचांश्च राक्षसेन च राक्षसान् । गान्धर्वेण च गन्धर्वान् कौबेरेण कुबेरजान् ।। १२.
इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि। प्रजापतिं तथा चैव प्राजापत्येन साधयेत् ।। १२.
ब्राह्मं ब्राह्येन चाप्येवमुपामन्त्रयते प्रभुम्। तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्त्तते ।। १२.
नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् । असज्यमानः स्थानेषु द्विजः सर्वगतो भवेत् ।। १२.
अत ऊर्द्ध्वं प्रवक्ष्यामि ऐश्वर्यगुण विस्तरम्। येन योगविशेषेण सर्वलोकानतिक्रमेत् ।। १३.
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम्। तत्सर्वं क्रमयोगेन उच्यमानं निबोधत ।। १३.
अणिमा लघिमा चैव महिमा प्राप्तिरेव च। प्राकाम्यज्चैव सर्वत्र ईशित्वञ्चैव सर्वतः ।। १३.
वशित्वमथ सर्वत्र यत्र कामावसायिता। तच्चापि विविधं ज्ञेयमैश्वर्यं सर्वकामिकम् ।। १३.
सावद्यं निरवद्यं च सूक्ष्मञ्चैव प्रवर्त्तते। सावद्यं नाम तत्तत्त्वं पञ्चभूतात्मकं स्मृतम् ।। १३.
निरवद्यं तथा नाम पञ्चभूतात्मकं स्मृतम्। इन्द्रियाणि मनश्चैव अहह्कारश्च वै स्मृतम् ।। १३.
तत्र सूक्ष्मप्रवृत्तन्तु पञ्चभूतात्मकं पुनः। इन्द्रियाणि मनश्चैव बुद्ध्यहङ्कार संज्ञितम् ।। १३.
तथा सर्वमयञ्चैव आत्मस्था ख्यातिरेव च। संयोग एवं त्रिपिधः सूक्ष्मेष्वेव प्रवर्त्तते ।। १३.
पुनरष्टगुणस्यापि तेष्वेवाथ प्रवर्त्तते। तस्य रूपं प्रवक्ष्यामि यथाह भगवान् प्रभुः ।। १३.
त्रैलोक्ये सर्वबूतेषु जीवस्यानियतः स्मृतः। अणिमा च यथाव्यक्तं सर्वं यत्र प्रतिष्ठितम् ।। १३.
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्। तच्चापि भवति प्राप्यं प्रथमं योगिनां बलात् ।। १३.
लम्बनं प्लवनं योगे रूपमस्य सदा भवेत् । शीघ्रगं सर्वभूतेषु द्वितीयं तत्पदं स्मृतम् ।। १३.