कृष्णसर्पापराधं तु धारयेद्धृदयोदरे । महर्जनस्तपः सत्यं हृदि कृत्वा तु धारयेत् ।। ११.
विषस्य तु फलं पीत्वा विशल्यां धारयेत्ततः । सर्वतः सनगां पृथ्वीं कृत्वा मनसि धारयेत् ।। ११.
हृदि कृत्वा समुद्रांश्च तथा सर्वाश्च देवताः । सहस्रेण घटानाञ्च युक्तः स्नायीत योगवित् ।। ११.
उदके कण्ठमात्रे तु धारणां मूध्नि धारयेत्। प्रतिस्रोतोविषाविष्टो धारयेत् सर्वगात्रिकीम् ।। ११.
शीर्णोऽर्कपत्रपुटकैः पिबेद्वल्मीकमृत्तिकाम् । चिकित्सितविधिर्ह्येष विश्रुतो योगनिर्मितः ।। ११.
व्याख्यातस्तु समासेन योगदृष्टेन हेतुना। ब्रुवतो लक्षणं विद्धि विप्रस्य कथयेत् व्कचित् ।। ११.
अथापि कथयेन्मोहात्तद्विज्ञानं प्रलीयते। तस्मात् प्रवृत्तिर्य्योगस्य न वक्तव्या कथञ्चन ।। ११.
सत्त्वं तथारोग्यमलोलुपत्वं वर्णप्रभा सुस्वरसौम्यता च। गन्धः शुभो मूत्रपुरीष मल्पं योगप्रवृत्तिः प्रथमा शरीरे ।। ११.
आत्मानं पृथिवीञ्चैव ज्वलन्तीं यदि पश्यति। कृत्वान्यं विशते चैव विद्यात् सिद्धिमुपस्थिताम् । ११.
अत ऊर्द्ध्वं प्रवक्ष्यामि उपसर्गा यथा तथा । प्रादुर्भवन्ति ये दोषा दृष्टतत्त्वस्य देहिनः ।। १२.
मानुष्यान् विविधान् कामान् कामयेत ऋतुं स्त्रियः। विद्यादानफलञ्चैव उपसृष्टस्तु योगवित् ।। १२.
अग्निहोत्रं हविर्यज्ञमेतत् प्रायतनं तथा। मायाकर्म धनं स्वर्गमुपसृष्टस्तु कांक्षति ।। १२.
एष कर्मसु युक्तस्तु सोऽविद्यावशमागतः। उपसृष्टन्तु जानीयाद्वुद्ध्या चैव विसर्ज्जयेत्। नित्यं ब्रह्मपरो युक्त उपसर्गात् प्रमुच्यते ।। १२.
जितप्रत्युपसर्गस्य जितश्वासस्य देहिनः। उपसर्गाः प्रवर्त्तन्ते सात्त्वराजसतामसाः ।। १२.
प्रतिभाश्रवणे चैव न देवानाञ्चैव दर्शनम्। भ्रमावर्तश्च इत्येते सिद्धिलक्षणसंज्ञिताः ।। १२.
विद्या काव्यं तथा शिल्पं सर्वं वाचावृतानि तु। विद्यार्थाश्चोपतिष्ठन्ति प्रभावस्यैव लक्षणम् ।। १२.
श्रृणोति शब्दान् श्रोतव्यान् योजनानां शतादपि। सर्वज्ञश्च विधिज्ञश्च योगी चोन्मत्तवद्भवेत् ।। १२.
यक्षराक्षसगन्धर्व्वान् वीक्षते दिव्यमानुषान्। वेत्ति तांश्च महायोगी उपसर्गस्य लक्षणम् ।। १२.
देवदानवगन्धर्वान् ऋषींश्चापि तथा पितॄन्। प्रेक्षते सर्वतश्चैव उन्मत्तं तं विनिर्द्दिशेत् ।। १२.
भ्रमेण भ्राम्यते योगी चोद्यमानोऽन्तरात्मना। भ्रमेण भ्रान्तबुद्धेस्तु ज्ञानं सर्वं प्रणश्यति ।। १२.
वार्त्ता नाशयते चित्तं चोद्यमानोऽन्तरात्मना। वर्त्तनाक्रान्तबुद्धेस्तु सर्वं ज्ञानं प्रणश्यति ।। १२.
आवृत्य मनसा शुक्लं पटं वा कम्बलं तथा। ततस्तु परमं ब्रह्म क्षिप्रमेवानुचिन्तयेत् ।। १२.
तस्माच्चैवात्मनो दोषांस्तूपसर्गानुपस्थितान् । परित त्यजेत मेधावी यदीच्छेत् सिद्धिमात्मनः ।। १२.
ऋषयो देवगन्धर्वा यक्षोरगमहासुराः। उपसर्गेषु संयुक्ता आवर्त्तन्ते पुनः पुनः ।। १२.
तस्माद्युक्तः सदा योगी लघ्वाहारी जितेन्द्रियः। तथा सुप्तः सुसूक्ष्मेषु धारणां मूर्ध्नि धारयेत् ।। १२.
ततस्तु योगयुक्तस्य जितनिद्रस्य योगिनः। उपसर्गाः पुनश्चान्ते जायन्ते प्राणसंज्ञकाः ।। १२.
पृथिवीं धारयेत्सर्वां ततश्चापो ह्यनन्तरम्। ततोऽग्निञ्चैव सर्वेषामाकाशं मन एव च ।। १२.
ततः परां पुनर्बुद्धिं धारयेद्यत्नतो यती। किद्धीनाञ्चैव लिङ्गानि दृष्ट्वा दृष्ट्वा परित्यजेत् ।। १२.
पृथ्वीं धारयमाणस्य मही सूक्ष्मा प्रवर्तते। अपो धारयमाणस्य आपः सूक्ष्मा भवन्ति हि। शीता रसाः प्रवर्त्तन्ते सूक्ष्मा ह्यमृतसन्निभाः ।। १२.
तेजो धारयमाणस्य तेजः सूक्ष्मा प्रवर्त्तते। आत्मानं मन्यते तेजस्तद्भावमनुपश्यति ।। १२.