प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः। सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ।। ११.
एवं वै नियताहारः प्राणायामपरायणः। जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः ।। ११.
अजिता हि महाभूमिर्दोषानुत्पादयेद्बहून् । विवर्द्धयति सम्मोहं न रोहेदजितां ततः ।। ११.
नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः। आपिबेत प्रयत्नेन तथा वायुञ्जितश्रमः ।। ११.
नाभ्यां च हृदये चैव कण्ठे उरसि चानने। नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्द्धनि ।। ११.
किञ्चिदूर्द्ध्वं परस्मिंश्च धारणा परमा स्मृता। प्राणापानसमारोधात् प्राणायामः स कथ्यते ।। ११.
मनसो धारणा चैव धारणेति प्रकीर्तिता। निवृत्ति र्विषयाणान्तु प्रत्याहारस्तु संज्ञितः ।। ११.
सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा। तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम्। ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ।। ११.
सत्त्वस्यानुपपत्तौ तु दर्शनन्तु नव विद्यते। अदेशकालयोगस्य दर्शनन्तु न विद्यते ।। ११.
अग्न्यभ्याशे वने वापि शुष्कपर्णचये तथा। जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ।। ११.
सशब्दे सभये वापि चैत्यवल्मीकसंचये। उदपाने तथा नद्यान्न बाधातः कदाचन ।। ११.
क्षुधाविष्स्तथाऽप्रितो न च व्याकुलचेतनः। युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ।। ११.
एतान् दोषान् विनिश्चित्य प्रमादाद्यो युनक्ति वै। तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ।। ११.
जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति। अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ।। ११.
तस्य दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै। तस्माज्ज्ञानेन शुद्धेन योगी युञ्जेत्समाहितः ।। ११.
अप्रमत्तः सदा चैव न दोषान् प्राप्रुयात् व्कचित् । तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम्। यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः ।। ११.
स्निग्धां यवागूमत्युष्णां भुक्त्वां तत्रावधारयेत् । एतेन क्रमयोगेन वातगुल्मं प्रशाम्यति ।। ११.
गुदावर्त्तप्रतीकारमिदं कुर्य्याच्चिकित्सितम्। भुक्त्वा दधि यवागूर्वा वायुरूर्द्ध्वं ततो व्रजेत ।। ११.
वायुग्रंथिं ततो भित्त्वा वायुदेशे प्रयोजयेत् । तथापि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् ।। ११.
युञ्जानस्य तनुं तस्य सत्तवस्थस्यैव देहिनः। गुदावर्त्तप्रतीघाते एतत् कुर्य्याच्चिकित्सितम् ।। ११.
सर्वगात्रप्रकम्पेन समारब्धस्य योगिनः । इमां चिकित्सां कुर्व्वीत तया संपद्यते सुखी ।। ११.
मनसा यद्व्रतं किञ्चिद्विष्टम्भीकृत्य धारयेत्। उरोद्धाते उरःस्थानं कण्ठदेशे च धारयेत् ।। ११.
त्वचोऽवधाते तां वाचि बाधिर्ये श्रोत्रयोस्तथा। जिह्वास्थाने तृषार्त्तस्तु अग्रे स्नेहांश्च तन्तुभिः। फलं वै चिन्तयेद्योगी ततः संपद्यते सुखी ।। ११.
क्षये कुष्ठे सकीलासे धारयेत्सर्वसात्विकीम्। यस्मिन् यस्मिन् रजोदेशे तस्मिन् युक्तो विनिर्द्दिशेत् ।। ११.
योगोत्पन्नस्य विप्रस्य इदं कुर्याच्चिकित्सितम्। वंशकीलेन मूर्द्धानं धारयाणस्य ताडयेत्। मूर्ध्नि कीलं प्रतिष्ठाप्य काष्ठं काष्ठेन ताडयेत् ।। ११.
भयभीतस्य सा संज्ञा ततः प्रत्यागमिष्यति। अथ वा लुप्तसंज्ञस्य हस्ताभ्यां तत्र धारयेत् ।। ११.
प्रतिलभ्य ततः संज्ञां धारणां मूर्ध्नि धारयेत्। स्रिग्धमल्पं च भुञ्जीत ततः संपद्यते सुखी ।। ११.
अमानुषेण सत्त्वेन यदा बुध्यति योगवित् । दिवं च पृथिवीञ्चैव वायुमग्निं च धारयेत् ।। ११.
प्राणायामेन तत्सर्वं दह्यमानं वशीभवेत्। अथापि प्रविशेद्देहं ततस्तं प्रतिषेधयेत् ।। ११.
ततः संस्तभ्य योगेन धारयानस्य मूर्द्धानि। प्राणायामाग्निना दग्धं तत्सर्वं विलयं व्रजेत् ।। ११.