ओङ्कारं प्रथमं कृत्वा चन्द्रसूयौं प्रणम्य च। आसनं स्वस्तिकं कृत्वा पझमर्द्धासनन्तथा ।। ११.
समजानुरेकजानुरुत्तानः सुस्थितोऽपि च। समो दृढासनो भूत्वा संहृत्य चरणावुभौ ।। ११.
संवृतास्योऽवबद्धाक्ष उरो विष्टभ्य चाग्रतः। पार्ष्णिभ्यां वृषणे छाद्य तथा प्रजननं ततः ।। ११.
किञ्चिदुन्नामितशिराः शिरो ग्रीवां तथैव च। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।। ११.
तमः प्रच्छाद्य रजसा रजः सत्त्वेन च्छादयेत् । ततः सत्त्वस्थितो भूत्वा योगं युञ्जन् समाहितः ।। ११.
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च स मारुतान्। विगृह्य समवायेव प्रत्याहारमुपक्रमेत् ।। ११.
यस्तु प्रत्याहरेत् कामान् कूर्मोऽङ्गानीव सर्वतः। तथात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ।। ११.
पूरयित्वा शरीरन्तु स बाह्याभ्यन्तरं शुचिः। आकण्ठनाभियोगेन प्रत्याहारमुपक्रमेत् ।। ११.
कलामात्रस्तु विज्ञेयो निमेषोन्मेष एव च। तथा द्वादशमात्रस्तु प्राणायामो विधीयते ।। ११.
धारणा द्वादशायामो योगो वै धारणाद्वयम्। तथा वै योगयुक्तश्च ऐश्वर्यं प्रतिपद्यते । वीक्षते परमात्मानं दीप्यमानं स्वतेजसा ।। ११.
प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः। सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ।। ११.
एवं वै नियताहारः प्राणायामपरायणः। जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः ।। ११.
अजिता हि महाभूमिर्दोषानुत्पादयेद्बहून् । विवर्द्धयति सम्मोहं न रोहेदजितां ततः ।। ११.
नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः। आपिबेत प्रयत्नेन तथा वायुञ्जितश्रमः ।। ११.
नाभ्यां च हृदये चैव कण्ठे उरसि चानने। नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्द्धनि ।। ११.
किञ्चिदूर्द्ध्वं परस्मिंश्च धारणा परमा स्मृता। प्राणापानसमारोधात् प्राणायामः स कथ्यते ।। ११.
मनसो धारणा चैव धारणेति प्रकीर्तिता। निवृत्ति र्विषयाणान्तु प्रत्याहारस्तु संज्ञितः ।। ११.
सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा। तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम्। ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ।। ११.
सत्त्वस्यानुपपत्तौ तु दर्शनन्तु नव विद्यते। अदेशकालयोगस्य दर्शनन्तु न विद्यते ।। ११.
अग्न्यभ्याशे वने वापि शुष्कपर्णचये तथा। जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ।। ११.
सशब्दे सभये वापि चैत्यवल्मीकसंचये। उदपाने तथा नद्यान्न बाधातः कदाचन ।। ११.
क्षुधाविष्स्तथाऽप्रितो न च व्याकुलचेतनः। युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ।। ११.
एतान् दोषान् विनिश्चित्य प्रमादाद्यो युनक्ति वै। तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ।। ११.
जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति। अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ।। ११.
तस्य दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै। तस्माज्ज्ञानेन शुद्धेन योगी युञ्जेत्समाहितः ।। ११.
अप्रमत्तः सदा चैव न दोषान् प्राप्रुयात् व्कचित् । तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम्। यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः ।। ११.
स्निग्धां यवागूमत्युष्णां भुक्त्वां तत्रावधारयेत् । एतेन क्रमयोगेन वातगुल्मं प्रशाम्यति ।। ११.
गुदावर्त्तप्रतीकारमिदं कुर्य्याच्चिकित्सितम्। भुक्त्वा दधि यवागूर्वा वायुरूर्द्ध्वं ततो व्रजेत ।। ११.
वायुग्रंथिं ततो भित्त्वा वायुदेशे प्रयोजयेत् । तथापि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् ।। ११.
युञ्जानस्य तनुं तस्य सत्तवस्थस्यैव देहिनः। गुदावर्त्तप्रतीघाते एतत् कुर्य्याच्चिकित्सितम् ।। ११.